Wednesday, 22 January 2025

महाभैरवाष्टकम्

  

 


 

महाभैरवाष्टकम्॥
श्रीगणेशाय नमः॥
         ॐ अस्य श्रीबटुकभैरवाष्टक स्तोत्र मन्त्रस्य ईश्वर ऋषिः गायत्री छन्दः  बटुकभैरवो देवताः ह्रीं बीजम्  बटुकायेतिशक्तिः प्रणवः कीलकम्  धर्मार्थ काममोक्षार्थे पाठे विनियोगः ॥
अथ करन्यास:-
कं अङ्गुष्टाभ्यां नमः ।
हं तर्जनीभ्यां स्वाहा ।
खं मध्यमाभ्यां वषट् ।
सं अनामिकाभ्यां हूं ।
गं कनिष्टिकाभ्यां वौषट् ।
क्षं करतलकरपृष्टाभ्यां फट् ॥
अथ हृदयादिन्यासः :-
कं हृदयाय नमः ।
हं शिरसे स्वाहा ।
खं शिखायै वषट् ।
सं कवचाय हूं ।
गं नेत्रत्रयाय वौषट् ।
क्षं अस्त्राय फट् ॥
अथाङ्ग न्यासः :-
क्षं नमः हृदि ।
कं नमः नासिकयोः ।
हं नमः ललाटे ।
खं नमः मुखे ।
सं नमः जिह्वायाम् ।
रं नमः कण्ठे ।
मं नमः स्तनयोः ।
नमः नमः सर्वाङ्गेषु ॥
॥ आज्ञा ॥
तीक्ष्णदंष्ट्र महाकाय कल्पान्त दहनोपम।
भैरवाय नमस्तुभ्यमनुज्ञान्दातुमर्हसि ॥१॥
अथ ध्यानम् :-
करकलितकपालः कुण्डलीदण्डपाणि
स्तरुणतिमिरनीलोव्यालयज्ञोपवीती।
क्रतुसमयसपर्या विघ्नविच्छेदहेतु-
र्जयतिबटुकनाथः सिद्धिदः साधकानाम् ॥२॥
॥ इति ध्यानम् ॥
पूर्वे आसिताङ्गभैरवाय नमः पूर्वदिशि मां रक्ष रक्ष कालकण्टकान्
भक्ष भक्ष आवाहयाम्यहमत्रतिष्ट तिष्ट हूं फट् स्वाहा।
आग्नेये रुरुभैरवाय नमः आग्नेये मां रक्ष रक्ष कालकण्टकान्
भक्ष भक्ष आवाहयाम्यहमत्रतिष्ट तिष्ट हूं फट् स्वाहा।
दक्षिणे चण्डभैरवाय नमः दक्षिणे मां रक्ष रक्ष कालकण्टकान्
भक्ष भक्ष आवाहयाम्यहमत्रतिष्ट तिष्ट हूं फट् स्वाहा।
नैरृत्ये क्रोधभैरवाय नमः नैरृत्यां मां रक्ष रक्ष कालकण्टकान्
भक्ष भक्ष आवाहयाम्यहमत्रतिष्ट तिष्ट हूं फट् स्वाहा।
प्रतिच्यां उन्मत्तभैरवाय नमः प्रतिच्यां मां रक्ष रक्ष कालकण्टकान्
भक्ष भक्ष आवाहयाम्यहमत्रतिष्ट तिष्ट हूं फट् स्वाहा।
वायव्ये कपालभैरवाय नमः वायव्ये मां रक्ष रक्ष कालकण्टकान्
भक्ष भक्ष आवाहयाम्यहमत्रतिष्ट तिष्ट हूं फट् स्वाहा।
उदिच्यां भीषणभैरवाय नमः उदिच्यां मां रक्ष रक्ष कालकण्टकान्
भक्ष भक्ष आवाहयाम्यहमत्रतिष्ट तिष्ट हूं फट् स्वाहा।
ईशान्यां संहारभैरवाय नमः ईशाने मां रक्ष रक्ष
कालकण्टकान् भक्ष भक्ष आवाहयाम्यहमत्रतिष्ट तिष्ट हूं फट् स्वाहा।
मंत्र:-नमो भगवते भैरवाय नमः क्लीं क्लीं क्लीं॥
हकीक माला से कम से कम 1/5/11 माला करें।
इति मन्त्रमष्टोत्तर शतं जप्त्वा चतुर्विध पुरुषार्थ सिद्धये महासिद्धिकर भैरवाष्टक स्तोत्र पाठे विनियोगः ॥
यं यं यं यक्षरूपं दिशिचकृतपदं भूमिकम्पायमानं
सं सं संहारमूर्तिं शिरमुकुटजटा भालदेशेऽर्धचन्द्रम् ।
दं दं दं दीर्घकायं विकृतनख मुखं चोर्ध्वरोमं करालं
पं पं पं पापनाशं नतिरिह सततं भैरवं क्षेत्रपालम् ॥१॥
रं रं रं रक्तवर्णं कटिनतनुमयं तीक्ष्णदंष्ट्रं च भीमं
घं घं घं घोरघोषं घ घ घनघटितं घुर्घुरा घोरनादम् ।
कं कं कं कालपाशं ध्रिकि ध्रिकि चकितं कालमेघावभासं
तं तं तं दिव्यदेहं नतिरिह सततं भैरवं क्षेत्रपालम् ॥२॥
लं लं लं लम्बदन्तं ल ल ल लितल ल्लोलजिह्वा करालं
धूं धूं धूं धूम्रवर्णं स्फुट विकृतनखमुखं भास्वरं भीमरूपम् ।
रुं रुं रुं रूण्डमालं रुधिरमयतनुं ताम्रनेत्रं सुभीमं
नं नं नं नग्नरूपं नतिरिह सततं भैरवं क्षेत्रपालम् ॥३॥
वं वं वं वायुवेगं ग्रहगणनमितं ब्रह्मरुद्रैस्सुसेव्यं
खं खं खं खड्गहस्तं त्रिभुवननिलयं घोररूपं महोग्रम् ।
चं चं चं व्यालहस्तं चालित चल चला चालितं भूतचक्रं
मं मं मं मातृरूपं नतिरिह सततं भैरवं क्षेत्रपालम् ॥४॥
शं शं शं शङ्खहस्तं शशिशकलयरं सर्पयज्ञोपवीतं
मं मं मं मन्त्रवर्णं सकलजननुतं मन्त्र सूक्ष्मं सुनित्यम् ।
भं भं भं भूतनाथं किलिकिलिकिलितं गेहगेहेरटन्तं
अं अं अं मुख्यदेवं नतिरिह सततं भैरवं क्षेत्रपालम् ॥५॥
खं खं खं खड्गभेदं विषममृतमयं कालकालं सुकालं
क्षं क्षं क्षं क्षिप्रवेगं दहदहदहनं तप्तसन्तप्तमानम् ।
हं हं हं कारनादं प्रकटितदपातं गर्जितां भोपिभूमिं
बं बं बं बाललीलं नतिरिह सततं भैरवं क्षेत्रपालम् ॥६॥
सं सं सं सिद्धियोगं सकलगुणमयं रौद्ररूपं सुरौद्रं
पं पं पं पद्मनाभं हरिहरनुतं चन्द्रसूर्याग्नि नेत्रम् ।
ऐं ऐं ऐं ऐश्वर्यरूपं सततभयहरं सर्वदेवस्वरूपं
रौं रौं रौं रौद्रनादं नतिरिह सततं भैरवं क्षेत्रपालम् ॥७॥
हं हं हं हंसहास्यं कलितकरतलेकालदण्डं करालं
थं थं थं स्थैर्यरूपं शिरकपिलजटं मुक्तिदं दीर्घहास्यम् ।
टं टं टंकारभीमं त्रिदशवरनुतं लटलटं कामिनां दर्पहारं
भूं भूं भूं (भुं भुं भुं) भूतनाथं नतिरिह सततं भैरवं क्षेत्रपालम्॥८॥
भैरवस्याष्टकं स्तोत्रं पवित्रं पापनाशनम्।
महाभयहरं दिव्यं सिद्धिदं रोगनाशनम् ॥
॥ इति श्रीरुद्रयामलेतन्त्रे महाभैरवाष्टकं सम्पूर्णम् ॥


No comments:

अगस्त्य ऋषि कृत सरस्वती स्तोत्रम्

  अगस्त्य ऋषि कृत सरस्वती स्तोत्रम्  देवी सरस्वती को समर्पित एक पवित्र मंत्र है, जिन्हें ज्ञान, बुद्धि और शिक्षा के रूप में पूजा जाता है। ...