Showing posts with label श्री काली-शाबर मंत्र. Show all posts
Showing posts with label श्री काली-शाबर मंत्र. Show all posts

Wednesday, 15 September 2021

श्री काली-शाबर मंत्र

श्री काली-शाबर मंत्र
।। तृतीय ‘काली-शाबर’ पटल ।।
।। श्रीदेव्युवाच ।।
देवश ! श्रोतुमिच्छामि, काली-शाबर-साधनम् ।
ललाटे कुल-पुष्पं च, हस्ते दिव्य-कुशाः शिवे ! ।। १
कुलासनं कुल-पानं, कुल-शय्या कुल-गृहम् ।
कुल-द्रव्यं सदा पेयं, काली-मन्त्र-प्रजापकैः ।। २
दक्षस्था दक्ष-हस्ते च, वामस्था वाम-हस्तगाः ।
एवं कुशाश्च सन्धार्याः, सिद्धयर्थं कालिका-परैः ।। ३
शुक्रेण पूजनं कार्यं, शुक्रेण पूजनं सदा ।
शुक्रेण मार्जनं कुर्याच्छुक्रेण पाक-भोजने ।। ४
सर्वं शुक्रेण कर्त्तव्यं, काली-दर्शनमिच्छता ।
स्वयम्भू-कुसुमेनैव, सर्व-स्नानादिकं चरेत् ।। ५
स्नानं भग-जलैः कार्यं, कालिका-भग-चिन्तकैः ।
वरं काल्या नहेशानि ! बलि-दानं समाचरेत् ।। ६
ॐ हँ कालि ! क्रूं काली, पुलकित-पुलकित-स्त्री-पुरुष-राजा-कर्षिणि मे वश कर नु वर स्वाहा । ॐ नमो भगवति ! रुद्र-काली, महा-काली, महेश्वर-काली, नन्दीश्वर-काली, इन्द्र-काली, परितः काली, भद्र-काली, वज्र-काली सर-सर, पुर-पुर, हर-हर, तुरु-तुरु, धुन-धुन, आवेशय-आवेशय, गर्ज्ज-गर्ज्ज, भण-भण कपालेश्वरि ! शूल-धारिणि ! ॐ क्रों फ्रों हन-हन अह चामुण्डेश्वरि ! स्वाहा ।।
अनेन मन्त्र-राजेन, सर्वदा बलिमाचरेत् ।
ॐ ह्रीं कालि-कालि ! महा-काली मांसशो जने रक्त-कृष्ण-मुखि, देवि ! मांसे पश्यन्तु मानुषाः स्वाहा ।।
एवं बलि-प्रयोगेन, सर्वं सिद्धयति पार्वति ! ।। ७
चक्रवर्त्यादि जीवानां, बलि-दानमथो श्रृणु -
ॐ कंकाली-काली ! नव-नाड़ी, बहत्तरि-जाली ! माह्रो शत्रु, ताह्रो भक्ष्य-भक्ष्य, गृह्ण-गृह्ण फट् स्वाहा ।।
बलि मन्त्राख्यं चिता, शत्रूणां बलिमाहरेत् ।। ८
सिद्धोऽपि शत्रु-वर्यश्चेत्, सर्वदा नश्यतु ध्रुवम् ।
साधकस्य महा-काली, बलि-मात्रेण सिद्धिदा ।। ९
सैन्योच्चाटनं नामानं, बलिं संश्रृणु पार्वती !
काली-वने ततो गत्वा, काली-मन्त्र-परायणः ।। १०
शवं पादेन सम्पाड्य, शंख-माला कराम्बुजे ।
खड्ग-हस्तो दिशा-वासो, मुक्त-केशो लताऽन्वितः ।। ११
सिन्दूर-तिलको मतो, सदा घूर्णित-लोचनः ।
कामिनी-हृदयानन्द, वारीवज्जल-लोचनाम् ।। १२
स्वयम्भू-कुसमं भाले, ताम्बुलैः पूरिताननः ।
शनि-भौम-दिने वापि, जातं कुण्डं समाहरेत् ।। १३
तत्-कपाले बलिं दद्यात्, कृशरान्न-मधूपकौ ।
सुरा-घृतं मधु शिवे ! कदली-पुष्पमेव च ।। १४
कसली-वीचपूरश्च, पनसस्तित्तिडी-फलम् ।
आमलक्यभयारिष्टा, मूष-मार्जार-कुक्कुटा ।। १५
अजावि महिषी देवि ! एको दुष्ट-तरः शिवे !
नाना-जाति-पक्षिरन्नैर्नानाऽऽसव-रसैरपि ।। १६
बलिं श्मशाने सन्दद्यात्, विजयार्थं नरोत्तमैः ।
मन्त्रेणानेन देवशि ! बलि-दानं समाचरेत् ।। १७
ॐ कालिका देवो काल-रुपिणी, महा-काल-दमनी, अमुकोच्चाटनार्थं मद्-दृष्टया मम भयं हर-हर स्वाहा ।।
अनेनास्त्रेण देवशि ! शत्रु-सैन्य-बलिं हरेत् ।
सैन्यस्योच्चाटनं कुर्यात्, बिना वासादिना प्रिये ! ।। १८
सर्वत्र मदिरा-दानं, सर्वत्र सर्व-शाबरे ।
इति संक्षेपतः प्रोक्तं, किमन्यत् श्रोतुच्छसि ।। १९
।। इति श्रीकाली-शाबरे शिव-पार्वती-सम्वादे काली-शाबरस्तृतीयः पटलः ।।
।। पण्डित विनायक धर दुवेदेन लिपि-कृतं-सम्वत १९४९, मार्गशीर्ष-कृष्ण-दशम्यां, चन्द्र-वासरे, काश्याम् ।।

श्री काली-शाबर मंत्र

श्री काली-शाबर मंत्र
।। प्रथम ‘परिभाषा’ पटल ।।
श्रृणु पार्वति ! वक्ष्यामि, सिद्ध शाबर-साधनम् ।
षट्-पञ्चाशन् महा-देशाः, कादि-हादि-क्रमाद् द्विधाः ।। १
षट्-त्रिंशज्जाति-भेदैश्च, प्रत्येकं भेद-भाजितैः ।
अनन्त-संख्यं देवशि ! तत्रापि द्विविधं शिवे ! ।। २
नाथोक्तं शंकर-प्रोक्तं, नाथोक्तं देश-भेदतः ।
शिवोक्तं रुप भेदेन, तत्र नाथाभिधे शिवे ! ।। ३
चतुराशीति-सिद्धोक्तं, नाथोक्तं द्विविधं मतम् ।
तन्नामानि प्रवक्ष्यामि, श्रृणु सावहिता भव ।। ४
‘शाबरं’ प्रथमं देवि ! द्वितीयं ‘सिद्ध-शाबरम्’ ।
‘कुमारी-शाबरं’ देवि ! ‘विजया-शाबरं’ तथा ।। ५
‘कालिका-शाबरं’ चैव, षष्ठं च ‘काल-शाबरं’ ।
‘दिव्य-शाबर’ – नामानमष्टमं ‘वीर-शाबरम्’ ।। ६
‘श्रीनाथ-शाबरं’ देवि ! ‘योगिनी-शाबरं तथा ।
‘तारिणी-शाबरं’ देवि ! द्वादशं ‘शम्भु-शाबरम् ।। ७
सूर्य-संख्या-शाबरे तु, साधना सम-रुपिणी ।
‘अघोर-शाबरं’ देवि ! भिन्नमेव त्रयोदशम् ।। ८
अघोरेऽपि समा देवि ! तानहो वच्मि संश्रृणु ।
‘विडघोरो’ भवेद् वज्रो, चामरी मूत्र-योगतः ।। ९
पशु-योगे तु परमी, द्वितीया सुरभी मता ।
वटुके श्रीकरी ज्ञेया, महा-काले शिवन्धरो ।। १०
शुक्रे तु सुन्दरा रम्भा, रक्ते कैवल्य-वेतना ।
रक्ताघोरस्तु प्रथमः, शुक्राघोरो द्वितीयकः ।। ११
विरा-मूत्राघोरकौ देवि ! प्रत्येकं द्वि-विधौ शिवे !
पशो स्वस्य परस्याथ, प्रत्येकं त्रिविधा क्रमात् ।। १२
वटु-वीरे कुक्कुरस्य, शिवायोः काल-गोचरः ।
गो-जन्यस्तारिणी-मन्त्रे, काल्यां तु शुक्र-रक्तजः ।। १३
भक्ष्याघोरः पञ्चम स्याद्, वान्त्यघोरस्तदन्ततः ।
चीनाघोरस्तथा नीलाघोरोऽपि परमेश्वरि ! ।। १४
नवमः सर्व-भक्ष्याख्यो, घोरोघोरो हि दुर्लभः ।
सिद्धाघोरस्तथा प्रोक्तः, सर्व-घोरस्तदन्ततः ।। १५
तथैव गारुडं देवि ! दशधा परि-कीर्तितम् ।
श्रीवेद-गरुडं देवि ! गारुडं वीर-गारुडम् ।। १६
श्रीकृष्ण-गारुडं देवि ! तदन्ते मन्त्र-गारुडम् ।
यन्त्र-गारुडकं देवि ! तदन्ते सिद्ध गारुडम् ।। १७
श्रीनाथ-गारुडं देवि ! चाघोर-गारुडं तथा ।
दशमं शाबरं नाम, गारुडं दशधा मतम् ।। १८
दशधा गारुडे देवि ! साधना शाबरोद्-गता ।
पूर्वाम्नाये वीर-शैवाः, तदन्ते वीर-वैष्णवाः ।। १९
पिशाचोच्छिष्ट-गणपाः, पश्चिमे परिकीर्तिता ।
उत्तरे घोर-भेदाश्च, ऊर्ध्वे शाबर-जातयः ।। २०
पाताले च पाशुपतास्तथा कापालिकाः शिवे !
शाबरागम-नामाख्यो महाऽऽम्नायः प्रकीर्त्तितः ।। २१
इति संक्षेपतः प्रोक्तं, श्रृणुष्व काल-शाबरम् ।
सुरया होमयेद् देवि ! सर्व-शाबर-सिद्धये ।। २२
कुमार-शाबरे देवि ! काञ्जिक्या होममाचरेत् ।
कालिका-शाबरे देवि ! डाकिन्या होममाचरेत् ।। २३
तारिणी-शाबरे देवि ! स्फाटिक्या होममाचरेत् ।
योगिनी-शाबरे देवि ! विजया-वीजमीरितम् ।। २४
श्ेीनाथ-शाबर देवि ! विजया – पत्रमेव च ।
विजया-वीज-होमेन, सर्व-शाबर-साधनम् ।। २५
विजया-पुष्प-होमेन, चातुर्वर्ण्य-क्रमेण च ।
होमयेत् परमेशानि ! पुरुषार्थ – चतुष्टये ।। २६
विजया-शाबरे देवि ! मांषेन सर्व-साधनम् ।
वीर-शाबर-तन्त्रेण, गुग्गुलं प्रथमं हुनेत् ।। २७
लोह-वाण-सुराद्यैश्च, शम्भु-शाबर-साधनम् ।
कादम्बर्या महेशानि ! दिव्य-शाबर-साधनम् ।। २८
जटामांस्या हुनेद् देवि ! काल-शाबर-साधने ।
हुनेद् रोचनया देवि ! सिद्ध-शाबर-साधने ।। २९
अघोर-शाबरे देवि ! दाडिमी-पुष्प-पूजनम् ।
तुम्बी-फलं सदा भक्ष्यं, सर्वदा मद्य-भक्षकः ।। ३०
अघोरे शाबरस्यैषा, साधना परिकीर्त्तिता ।
धानको-पुष्प-होमेन, सर्व-शाबर-साधनम् ।। ३१
कुचन्दनं चन्दनं च, कर्वीर-कुसमानि च ।
बिल्व-पुष्पाणि देवेशि ! आरक्तानि विशेषतः ।। ३२
धूपो गुग्गुल-सम्भूतः, सुरा-धाता-हुतावचि ।
नैवेद्यो मांस-सम्भूतः, सम्विद्-वीजानि चर्वणम् ।। ३३
धातकी बिल्व-पुष्पेषु, सर्व-पुष्पोत्तमोत्तमे ।
आसनं व्याघ्र-चर्मादि, मुण्ड-वीरादिकं च वा ।। ३४
माला मुण्डास्थि-सम्भूता, सर्प-मत्स्यास्थि-मालिका ।
अरिष्टजां वा सर्वार्थे, कपालं पात्रमुत्तमम् ।। ३५
यत्र तुम्बी नारिकेलं, तथैव शर्करोद्भवम् ।
गन्धर्वाख्यो महा-वेषः, सिद्ध-वेषः शुभावहः ।। ३६
श्मशाने विजनेऽरण्ये, कामिनी-नृत्य-मण्डले ।
एडूके विपिने प्रान्ते, शय्यायामंगने गृहे ।। ३७
वेश्या-वेश्मनि नद्यां च, तडागे गिरि-गह्वरे ।
शाबरं साधयेद् देवि ! भूयो वा साधयेद् यती ।। ३८
नराणां क्षत्रियाणां च, वटुकः शाबरागमः ।
नेत्र-द्वयमिदं प्रोक्तं, कल्प-मार्गेण साधयेत् ।। ३९
नेत्र-द्वयं-विहीनो यः, क्षत्रियश्चात्महा कलौ ।
नेत्र-द्वयं सदा रक्ष्यं, क्षत्रियैर्मानवैरपि ।। ४०
विना मांसेन मद्येन्, सम्विद्-वीजैर्विना प्रिये !
यः शाबरं साधयितुं, समुद्युक्तः स नश्यति ।। ४१
सुधा-सीध्वासवारिष्टैः, स्फाटिक्याद्यैरपि प्रिये ।। ४२
कादम्बरी सुमाध्वीकैर्मैरेयाद्यैरपि प्रिये !
शाबरं नार्चयेद् यस्तु, स पापीयः सुखी कथम् ।। ४३
मद्य-मांसादिना देवि ! शाबरे सर्वदाऽर्चनम् ।
शाबराणामघोराणां, मद्यादौ साधना समा ।। ४४
न शाबरे ब्रह्म-चर्यां, ब्रह्मचर्यं क्वचिद् भवेत् ।
न विद्वेषो न वा शौचो, न वा मास-विकल्पना ।। ४५
न काल-नियमः क्वापि, शाबरागम-साधने ।
इक्षु-दण्डो गुडश्चैव, मिष्ठं सर्व-विधो शिवे ! ।। ४६
शाबरादौ प्रसिद्धं च, फल-मात्रं विशेषतः ।
विजया सर्वदा भक्ष्या, मांसं भक्ष्यं सदैव तु ।। ४७
इति संक्षेपतः प्रोक्तं, किमन्यत् श्रोतुमर्हसि ।। ४८
।। इति श्रीकाली-शाबरे शिव-पार्वती-सम्वादे वटुक-प्रोक्तं परिभाषा-पटलः प्रथमं समाप्तम् ।।

दुर्गा सप्तशती पाठ विधि

  दुर्गा सप्तशती दुर्गा सप्तशती पाठ विधि पूजनकर्ता स्नान करके, आसन शुद्धि की क्रिया सम्पन्न करके, शुद्ध आसन पर बैठ जाएँ। माथे पर अपनी पसंद क...