Tuesday 16 April 2019

॥अथ योगिनीहृदयम्॥ श्रीदेव्युवाच देवदेव महदेव परिपूर्णप्रथामय । वामकेश्वरतन्त्रेऽस्मिन्नज्ञातर्थास्त्वनेकशः ।। १ ।। तांस्तानर्थानशेषेण वक्तुमर्हसि भैरव । श्रीभैरव उवाच शृणु देवि महागुह्यं योगिनिहृदयं परम् ।। २ ।। त्वत्प्रीत्या कथयाम्यद्य गोपनीयं विशेषतः । कर्णात्कर्णोर्पदेशेन सम्प्राप्तमवनीतलम् ।। ३ ।। न देयं परशिष्येभ्यो नास्तिकेभ्यो न चेश्वरि । न शुश्रूषालसानाञ्च नैवानर्थप्रदायिनाम् ।। ४ ।। परीक्षिताय दातव्यं वत्सरार्धोषिताय च । एतज्ज्ञात्वा वररोहे सद्यः खेचरतां व्रजेत् ।। ५ ।। चक्रसङ्केतको मन्त्रपूजासङ्केतकौ तथा । त्रिविधस्त्रिपुरादेव्याः सङ्केतः परमेश्वरि ।। ६ ।। यावदेतन्न जानाति सङ्केतत्रयमुत्तमम् । न तावत्रिपुराचक्रे परमाज्ञाधरो भवेत् ।। ७ ।। तच्छक्तिपञ्चकं सृष्ट्या लयेनाग्निचतुष्टयम् । पञ्चशक्तिचतुर्वह्निसंयोगाच्चक्रसम्भवः ।। ८ ।। एतच्चक्रावतारन्तु कथयामि तवानघे । यदा सा परमा शक्तिः स्वेच्छया विश्वरूपिणी ।। ९ ।। स्फुरत्तामात्मनः पश्येत्तदा चक्रस्य सम्भवः । शून्याकाराद्विसर्गान्ताद् बिन्दोः प्रस्पन्दसंविदः ।। १० ।। प्रकाशपरमार्थत्वात् स्फुरत्तालहरीयुतात् । प्रसृतं विश्वलहरीस्थानं मातृत्रयात्मकम् ।। ११ ।। बैन्दवं चक्रमेतस्य त्रिरूपत्वं पुनर्भवेत् । धर्माधर्मौ तथात्मानो मातृमेयौ तथा प्रमा ।। १२ ।। नवयोन्यात्मकं चक्रं चिदानन्दघनं महत् । चक्रं नवात्मकमिदं नवधा भिन्नमन्त्रकम् ।। १३ ।। बैन्दवासनसंरूढसंवर्तानलचित्कलम् । अम्बिकारूपमेवेदमष्टारस्थं स्वरावृतम् ।। १४ ।। नवत्रिकोणस्फुरितप्रभारूपदशारकम् । शक्त्यादिनवपर्यन्तदशार्णस्फूर्तिकारकम् ।। १५ ।। भूततन्मात्रदशकप्रकाशालम्बनत्वतः । द्विदशारस्फुरद्रूपं क्रोधीशादिदशारकम् ।। १६ ।। चतुश्चक्रप्रभारूपसंयुक्तपरिणामतः । चतुर्दशाररूपेण संवित्तिकरणात्मना ।। १७ ।। खेचर्यादिजयान्तार्णपरमार्थप्रथामयम् । एवं शक्त्यनलाकारस्फुरद्रौद्रीप्रभामयम् ।। १८ ।। ज्येष्टारूपचतुष्कोणं वामारूपभ्रमित्रयम् । चिदंशान्तस्त्रिकोणं च शान्त्यतिताष्टकोणकं ।। १९ ।। शान्त्यंशद्विदशारञ्च तथैव भुवनारकम् । विद्याकलाप्रमारूपदलाष्टकसमावृतम् ।। २० ।। प्रतिष्टावपुषा सृष्टस्फुरद्द्व्यष्टदलाम्बुजम् । निवृत्त्याकारविलसच्चतुस्ष्कोणविराजितम् ।। २१ ।। त्रैलोक्यमोहनाद्ये तु नवचक्रे सुरेश्वरि । नादो बिन्दुः कला ज्येष्टा रौद्रीई वामा तथा पुनः ।। २२ ।। विषघ्नीई दूतरी चैव सर्वानन्दा क्रमात् स्थिताः । निरंशौ नादबिन्दू च कला चेच्छास्वरूपकम् ।। २३ ।। ज्येष्टा ज्ञानं क्रिया शेषमित्येवं त्रितयात्मकम् । चक्रं कामकलारूपं प्रसारपर, मार्थतः ।। २४ ।। अकुले विषुसंज्ञे च शक्ते वह्नौ तथा पुनः । नाभावनाहते शुद्धे लम्बिकाग्रे भ्रुवोऽन्तरे ।। २५ ।। बिन्दौ तदर्धे रोधिन्यां नादे नादान्त एव च । शक्तौ पुनर्व्यापिकायां समनोन्मनि गोचरे ।। २६ ।। महाबिन्दौ पुनश्चैव त्रिधा चक्रं तु भावयेत् । आज्ञान्तं सकलं प्रोक्तं ततः सकलनिष्कलम् ।। २७ ।। उन्मन्यन्तं परे स्थाने निष्कलञ्च त्रिधा स्थितम् । दीपाकारोऽर्धमात्रश्च ललाटे वृत्त इष्यते ।। २८ ।। अर्धचन्द्रस्तथाकारः पादमात्रस्तदूर्ध्वके । ज्योत्स्नाकारा तदष्टांशा रोधिनी त्र्यस्रविग्रहा ।। २९ ।। बिन्दुद्वयान्तरे दण्डः शेवरूपो मणिप्रभः । कलांशो द्विगुणांशश्च नादान्तो विद्युदुज्ज्वलः ।। ३० ।। हलाकारस्तु सव्यस्थबिन्दुयुक्तो विराजते । शक्तिर्वामस्थबिन्दुद्यत्स्थिराकारा तथा पुनः ।। ३१ ।। व्यापिका बिन्दुविलसत्त्रिकोणाकारतां गता । बिन्दुद्वयान्तरालस्था ऋजुरेखामयी पुनः ।। ३२ ।। समना बिन्दुविलसदृजुरेखा तथोन्मना । शक्त्यादीनां वपुः स्फूर्जद्द्वादशादित्यसन्निभम् ।। ३३ ।। चतुःषष्टिस्तदूर्ध्वं तु द्विगुणं दिगुणं ततः । शक्त्यादीनां तु मात्रांशो मनोन्मन्यास्तथोन्मनी ।। ३४ ।। दैशकालानवच्छिन्नं तदूर्ध्वे परमं महत् । निसर्गसुन्दरं तत्तु परानन्दविघूर्णितम् ।। ३५ ।। आत्मनह स्फुरणं पश्येद्यदा सा परमा कला । अम्बिकारूपमापन्न परा वाक् ससुदीरिता ।। ३६ ।। बीजभावस्थितं विश्वं स्फुटीकर्तुं यदोन्मुखी ।। वामा विश्वस्य वमनादङ्कुशाकारतां गता ।। ३७ ।। इच्छाशक्तिस्तदा सेयं पश्यन्ती वपुषा स्थिता । ज्ञानशक्तिस्तथा ज्येष्टा मध्यमा वागुदीरिता ।। ३८ ।। ऋजुरेखामयी विश्वस्थितौइ प्रथितविग्रहा । तत्संहृतिदशायां तु बैन्दवं रूपमास्थिता ।। ३९ ।। प्रत्यावृत्तिक्रमेणैवं शृङ्गटवपुरुज्ज्वला । क्रियाशक्तिस्तु रौद्रीयं वैखरी विश्वविग्रहा ।। ४० ।। भासनाद्विश्वरूपस्य स्वरूपे बाह्यतोऽपि च । एताश्चतस्त्रः शक्त्यस्तु का पू जा ओ इति क्रमात् ।। ४१ ।। पीठाः कन्दे पदे रूपे रूपातीते क्रमात् स्थिताः । चतुरस्त्रं तथ बिन्दुषट्कयुक्तं च वृत्तकम् ।। ४२ ।। अर्धचन्द्रं त्रिकोणं च रूपाण्येषां क्रमेण तु । पीतो धूम्रस्तथा श्वेतो रक्तो रूपं च कीर्तितम् ।। ४३ ।। स्वयम्भुर्बाणलिङ्गं च इतरं च परं पुनः । पीठेष्वेतानि लिङ्गानि संस्थितानि वरानने ।। ४४ ।। हेमबन्धृककुसुमशरच्चन्द्रनिभानि तु । स्वावृतं त्रिकूटं च महालिङ्गं स्वयम्भुवम् ।। ४५ ।। कादितान्ता क्षरोपेतं बाणलिङ्गं त्रिकोणकम् । कदम्बगोलकाकारं थादिसान्ताक्षरावृतम् ।। ४६ ।। सूक्ष्मरूपं समस्तार्णवृतं परमलिङ्गकम् । बिन्दुरूपं परानन्दकन्दं नित्यपओदितम् ।। ४७ बीअत्रितययुक्तास्य सकस्य मनोः पुनः । एतानि वाच्यरूपाणि कुलकौलमयानि तु ।। ४८ ।। जाग्रत्स्वप्नसुषुप्त्याख्यतुर्यरूपाण्यमूनि तु । अतितं तु परं तेजः स्वसंविदुदयात्मकम् ।। ४९ ।। स्वेच्छाविश्वमयोल्लेखखचितं विश्वरूपकम् । चैतन्यमात्मनो रूपं निसर्गानन्दसुन्दरम् ।। ५० ।। मेयमातृप्रमामानप्रसरैः संकुचत्प्रभम् । शृङ्गाटरूपमापन्नमिच्छाज्ञानक्रियात्मकम् ।। ५१ ।। विश्वाकारप्रथाधारनिजरूपशिवाश्रयम् । कामेश्वराङ्कपर्यङ्कनिविष्टमतिसुन्दरम् ।। ५२ ।। इच्छाशक्तिमयं पाशमङ्कुशं ज्ञनरूपिणम् । क्रियाशक्तिमये बाणधनुषी दधदुज्ज्वलम् ।। ५३ ।। आश्रयाश्रयिभेदेन अष्टधा भिन्नहेतिमत् । अष्टारचक्रसंरूढं नवचक्रासनस्थितम् ।। ५४ ।। एवंरूपं परं तेजः श्रीचक्रवपुषा स्थितम् । तदीयशक्तिनिकरस्फुरदूर्मिसमावृतम् ।। ५५ ।। चिदात्मभित्तौ विश्वस्य प्रकाशामर्शने यदा । करोति स्वेच्छया पूर्णविचिकीर्षासमन्विता ।। ५६ ।। क्रियाशक्तिस्तु विश्वस्य मोदनाद् द्रावणात्तथा । मुद्राख्या सा यदा संविदम्बिका त्रिकलामयी ।। ५७ ।। त्रिखण्डारूपमापन्ना सदा सन्निधिकारिणी । सर्वस्य चक्रराजस्य व्यापिका परिकीर्तित ।। ५८ ।। योनिप्राचुर्यतः सैषा सर्वसंक्षोभिका पुनः । वामाशक्तिप्रधानेयं द्वारचक्रे स्थिता भवेत् ।। ५९ ।। क्षुब्धाविश्वस्थिततिर्करी ज्येष्टाप्राचुर्यमाश्रिता । स्थूलनादकलारूपा सर्वानुग्रहकारिणी ।। ६० ।। सर्वाशपूरणाख्ये तु सैषा स्फुरितविग्रहा । ज्येष्टावामासमन्त्वेन सृष्टेः प्राधान्यमाश्रिता ।। ६१ ।। आकर्षिणी तु मुद्रेयं सर्वसंक्षोभिणी स्मृता । व्योमद्वयान्तरालस्थबिन्दुरूपा महेश्वरि ।। ६२ ।। शिवशक्त्यात्मसंश्लेषाद्दिव्याकेशकरी स्मृता चतुर्दशारचक्रस्था संविदानन्दविग्रहा ।। ६३ ।। बिन्द्वन्तरालविलसत्सूक्ष्म रेखाशिखामयी । ज्येष्टाशक्तिप्रधाना तु सर्वोन्मादनकारिणी ।। ६४ ।। दशारचक्रमास्थाय संस्थिता वीरवन्दिते । वामाशक्तिप्रधाना तु महाङ्कुशमयी पुनः ।। ६५ ।। तद्वद्विश्वं वमन्ती सा दिव्तीये तु दशारके । संस्थिता मोदनपरा मुद्रारूपत्वमास्थिता ।। ६६ ।। धर्माधर्मस्य संघट्टादुत्थिता वित्तीरूपिणी । विकल्पोत्थक्रियालोपरूपदोषविधातिनी ।। ६७ ।। विकल्परूपरोगाणां हारिणी खेचरी परा । सर्वरोगहराख्ये तु चक्रे संविन्मयी स्थिता ।। ६८ ।। शिवशक्तिसमाश्लेषस्फुरद्व्योमान्तरे पुनः । प्रकाशयति विश्वं सा सूक्ष्मरूपस्थित सदा ।। ६९ ।। बीजरूपा महामुद्रा सर्वसिद्धिमये स्थिता । सम्पूर्णस्य प्रकाशस्य लाभभूमिरियं पुनः ।। ७० ।। योनिमुद्रा कलारूपा सर्वानन्दमये स्थिता । क्रिया चैतन्यरूपत्वादेवं चक्रमयं स्थितम् ।। ७१ ।। इच्छारूपं परं तेजाः सर्वदा भावयेद् बुधः । त्रिधा च नवधा चैव चक्रसङ्केतकः पुनः ।। ७२ ।। वह्निनैकेन शक्तिभ्यां द्वाभ्यां चैकोऽप्रः पुनः । तैश्च वह्नित्रयेणापि शक्तीनां त्रितयेन च ।। ७३ ।। पद्मद्वयेन चान्यः स्याद भूगृहत्रितयेन च । पञ्चशक्ति चतुर्वह्निपद्मद्वयमहीत्रयम् ।। ७४ ।। परिपूर्णं महचक्रं तत्प्रकारः प्रदर्श्यते । तत्राद्यं नवयोनि स्यात् तेन द्विदशासंयुतम् ।। ७५ ।। मनुयोनि परं विद्यात् तृतीयं तदनन्तरम् । अष्टद्व्यष्टदलोपेतं चतुरस्रत्रयान्वितम् ।। ७६ ।। चक्रस्य त्रिप्रकारत्वं कथितं परमेश्वरि । सृष्टिःस्यान्नवयोन्यादिपृथ्व्यन्तं संहृति पुनः ।। ७७ ।। पृथ्व्यादिनवयोन्यन्तमिति शास्त्रस्य निर्णयः । एतत्समष्टिरूपं तु त्रिपुराचक्रमुच्यते ।। ७८ ।। यस्य विज्ञानमात्रेण त्रिपुराज्ञानवान् भवेत् । चक्रस्य नवधात्वं च कथयामि तव प्रिये ।। ७९ ।। आदिमं भूत्रयेण स्याद द्वितीयं षोडशारकम् । अन्यदष्टदलं प्रोक्तं मनुकोणमनन्तरम् ।। ८० ।। पञ्चमं दशकोणं स्यात् षष्टं चापि दशारकम् ।। सप्तमं वसुकोणं स्यान्मध्यत्र्यस्रमथाष्टमम् ।। ८१ ।। नवमं त्र्यस्रमध्यं स्यात् तेषां नामान्यतः शृणु । त्रैलोक्यमोहनं चक्रं सर्वाशापरिपूरकम् ।। ८२ ।। सर्वसंक्षोभणं गौरि सर्वासौभाग्यदायकम् । सर्वार्थसाधकं चक्रं सर्वरक्षाकरं परम् ।। ८३ ।। सर्वरोगहरं देवि सर्वसिद्धिमयं तथा । सर्वानन्दमयं चापि नवमं शृणु सुन्दरि ।। ८४ ।। अत्र पुज्या महादेवी महात्रिपुरसुन्दरी । परिपूर्णं महाचक्रमजरामरकारकम् ।। ८५ ।। एतमेव महाचक्रसङ्केतः परमेश्वरि । कथितस्त्रिपुरादेव्या जीवन्मुक्तिप्रवर्तकः ।। ८६ ।।

No comments:

https://youtu.be/XfpY7YI9CHc

https://youtu.be/XfpY7YI9CHc