Showing posts with label श्रीमहागणपति-वज्रपञ्जर-कवच. Show all posts
Showing posts with label श्रीमहागणपति-वज्रपञ्जर-कवच. Show all posts

Friday 10 September 2021

श्रीमहागणपति-वज्रपञ्जर-कवच

श्रीमहागणपति-वज्रपञ्जर-कवच 
॥ पूर्व-पीठिका-श्रीभैरव उवाच ॥ महा-देवि गणेशस्य, वरदस्य महात्मनः । कवचं ते प्रवक्ष्यामि, वज्र-पञ्जरकाभिधम् ॥ विनियोगः- अस्य श्रीमहा-गणपति-वज्र-पञ्जर-कवचस्य शऽरीभैरव ऋषिः, गायत्र्यं छन्दः, श्रीमहा-गणपतिः देवता, गं बीजं, ह्रीं शक्तिः, कुरु-कुरु कीलकं, वज्र-विद्यादि-सिद्धयर्थे महा-गणपति-वज्र-पञ्जर-कवच-पाठे-विनियोगः। ऋष्यादि-न्यासः- श्रीभैरव ऋषये नमः शिरसि, गायत्र्यं छन्दसे नमः मुखे, श्रीमहा-गणपति देवतायै नमः हृदि, गं बीजाय नमः गुह्ये, ह्रीं शक्तये नमः नाभौ, कुरु-कुरु कीलकाय नमः पादयोः, वज्र-विद्यादि-सिद्धयर्थे महा-गणपति-वज्र-पञ्जर-कवच-पाठे विनियोगाय नमः अञ्जलौ। षडंग-न्यास कर-न्यास अंग-न्यास गां अंगुष्ठाभ्यां नमः हृदयाय नमः गीं तर्जनीभ्यां स्वाहा शिरसे स्वाहा गूं मध्यमाभ्यां वषट् शिखायै वषट् गैं अनामिकाभ्यां हुं कवचाय हुं गौं  कनिष्ठिकाभ्यां वौषट् नेत्र-त्रयाय वौषट् गः  करतल-कर-पृष्ठाभ्यां फट् अस्त्राय फट्   ध्यानः- विघ्नेशं विश्व-वन्द्यं सु-विपुल-यशसं लोक-रक्षा-प्रदक्षं, साक्षात् सर्वापदासु प्रशमन-सुमतिं पार्वती-प्राण-सूनुम। प्रायः सर्वासुरेन्द्रैः स-सुर-मुनि-गणैः साधकैः पूज्यमानं, कारयण्येनान्तरायामित-भय-शमनं विघ्न-राजं नमामि।। ‘मानस-पूजन’ कर ‘कवच-पाठ’ करे। यथा- ॥ मूल कवच-पाठ ॥ ॐ श्रीं ह्रीं गं शीरः पातु, महा-गणपतिः प्रभुः । विनायको ललाटं मे, विघ्न-राजो भ्रुवौ मम ॥ १ ॥ पातु नेत्रे गणाध्यक्षो, नासिकां मे गजाननः । श्रुती मेऽवतु हेरम्बो, गण्डौ मे मोदकाशनः ॥ २ ॥ द्वै-मातुरो मुखं पातु, चाधरौ पात्वरिन्दमः । दन्तान् ममैक-दन्तोऽव्याद्, वक्र-तुण्डोऽवताद् रसाम् ॥ ३ ॥ गांगेयो मे गलं पातु, स्कन्धौ सिंहासनोऽवतु । विघ्नान्तको भुजौ पातु, हस्तौ मूषक-वाहनः ॥ ४ ॥ ऊरु ममावतान्नित्यं, देवस्त्रिपुर-घातनः । हृदयं मे कुमारोऽव्याज्जयन्तः पार्श्व-युग्मकम् ॥ ५ ॥ प्रद्युम्नो मेऽवतात् पृष्ठं, नाभिं शंकर-नन्दनः । कटिं नन्दि-गणः पातु, शिश्नं वीरेश्वरोऽवतु ॥ ६ ॥ मेढ्रे मेऽवतु सौभाग्यो, भृंगिरीटी च गुह्यकम् । विराटकोऽवतादूरु, जानू मे पुष्प-दन्तकः ॥ ७ ॥ जंघे मम विकर्तोऽव्याद्, गुल्फायन्त्य-गणोऽवतु । पादौ चित्त-गणः पातु, पादाधो लोहितोऽवतु ॥ ८ ॥ पाद-पृष्ठं सुन्दरोऽव्याद्, नूपुराढ्यो वपुर्मम । विचारो जठरं पातु, भूतानि चोग्र-रुपकः ॥ ९ ॥ शिरसः पाद-पर्यन्तं, वपुः सुप्त-गणोऽवतु । पादादि-मूर्घ-पर्यन्तं, वपुः पातु विनर्तकः ॥ १० ॥ विस्मारितं तु यत् स्थानं, गणेशस्तत् सदाऽवतु । पूर्वे मां ह्रीं करालोऽव्यादाग्नेये विकरालकः ॥ ११ ॥ दक्षिणे पातु संहारो, नैऋते रुरु-भैरवः । पश्चिमे मां महा-कालो, वायौ कालाग्नि-भैरवः ॥ १२ ॥ उत्तरे मां सितास्योऽव्यादैशान्यामसितात्मकः । प्रभाते शत-पत्रोऽव्यात्, सहस्त्रारस्तु मध्यमे ॥ १३ ॥ दन्त-माला दिनान्तेऽव्यान्निशि पात्रं सदाऽवतु । कलशो मां निशीथेऽव्यान्निशान्ते परशुस्तथा ॥ सर्वत्र सर्वदा पातु शंख-युग्मं च मद्-वपुः ॥ १४ ॥ ॐ ॐ राज-कुले हहौं रण-भये ह्रीं ह्रीं कुद्यूतेऽवतात्, श्रीं श्रीं शत्रु-गृहे शशौं जल-भये क्लीं क्लीं वनान्तेऽवतु । ग्लौं ग्लूं ग्लैं ग्लं गुं सत्त्व-भीतिषु महा-व्याधऽयार्तिषु ग्लौं गगौं, नित्यं यक्ष-पिशाच-भूत-फणिषु ग्लौं गं गणेशोऽवतु ॥ १५ ॥ ॥ फल-श्रुति ॥ इतीदं कवचं गुह्यं, सर्व-तन्त्रेषु गोपितम् । वज्र-पञ्जर-नामानं, गणेशस्य महात्मनः ॥ १ ॥ अंग-भूतं मनु-मयं, सर्वाचारैक-साधनम् । विनानेन न सिद्धिः स्यात्, पूजनस्य जपस्य च ॥ २ ॥ तस्मात् तु कवचं पुण्यं, पठेद्वा धारयेत् सदा । तस्य सिद्धिर्महा-देवि करस्था पारलौकिकी ॥ ३ ॥ यं यं कामयते कामं, तं तं प्राप्नोति पाठतः । अर्ध-रात्रे पठेन्नित्यं, सर्वाभीष्ट-फलं लभेत् ॥ ४ ॥ इति गुह्यं सुकवचं, महा-गणपतेः प्रियम् । सर्व-सिद्धि-मयं दिव्यं, गोपयेत् परमेश्वरि ॥ ५ ॥ ॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये महागणपतिकवचं समाप्तम् ॥


https://youtu.be/XfpY7YI9CHc

https://youtu.be/XfpY7YI9CHc