।। प्रथम ‘परिभाषा’ पटल ।।
श्रृणु पार्वति ! वक्ष्यामि, सिद्ध शाबर-साधनम् ।
षट्-पञ्चाशन् महा-देशाः, कादि-हादि-क्रमाद् द्विधाः ।। १
षट्-त्रिंशज्जाति-भेदैश्च, प्रत्येकं भेद-भाजितैः ।
अनन्त-संख्यं देवशि ! तत्रापि द्विविधं शिवे ! ।। २
नाथोक्तं शंकर-प्रोक्तं, नाथोक्तं देश-भेदतः ।
शिवोक्तं रुप भेदेन, तत्र नाथाभिधे शिवे ! ।। ३
चतुराशीति-सिद्धोक्तं, नाथोक्तं द्विविधं मतम् ।
तन्नामानि प्रवक्ष्यामि, श्रृणु सावहिता भव ।। ४
‘शाबरं’ प्रथमं देवि ! द्वितीयं ‘सिद्ध-शाबरम्’ ।
‘कुमारी-शाबरं’ देवि ! ‘विजया-शाबरं’ तथा ।। ५
‘कालिका-शाबरं’ चैव, षष्ठं च ‘काल-शाबरं’ ।
‘दिव्य-शाबर’ – नामानमष्टमं ‘वीर-शाबरम्’ ।। ६
‘श्रीनाथ-शाबरं’ देवि ! ‘योगिनी-शाबरं तथा ।
‘तारिणी-शाबरं’ देवि ! द्वादशं ‘शम्भु-शाबरम् ।। ७
सूर्य-संख्या-शाबरे तु, साधना सम-रुपिणी ।
‘अघोर-शाबरं’ देवि ! भिन्नमेव त्रयोदशम् ।। ८
अघोरेऽपि समा देवि ! तानहो वच्मि संश्रृणु ।
‘विडघोरो’ भवेद् वज्रो, चामरी मूत्र-योगतः ।। ९
पशु-योगे तु परमी, द्वितीया सुरभी मता ।
वटुके श्रीकरी ज्ञेया, महा-काले शिवन्धरो ।। १०
शुक्रे तु सुन्दरा रम्भा, रक्ते कैवल्य-वेतना ।
रक्ताघोरस्तु प्रथमः, शुक्राघोरो द्वितीयकः ।। ११
विरा-मूत्राघोरकौ देवि ! प्रत्येकं द्वि-विधौ शिवे !
पशो स्वस्य परस्याथ, प्रत्येकं त्रिविधा क्रमात् ।। १२
वटु-वीरे कुक्कुरस्य, शिवायोः काल-गोचरः ।
गो-जन्यस्तारिणी-मन्त्रे, काल्यां तु शुक्र-रक्तजः ।। १३
भक्ष्याघोरः पञ्चम स्याद्, वान्त्यघोरस्तदन्ततः ।
चीनाघोरस्तथा नीलाघोरोऽपि परमेश्वरि ! ।। १४
नवमः सर्व-भक्ष्याख्यो, घोरोघोरो हि दुर्लभः ।
सिद्धाघोरस्तथा प्रोक्तः, सर्व-घोरस्तदन्ततः ।। १५
तथैव गारुडं देवि ! दशधा परि-कीर्तितम् ।
श्रीवेद-गरुडं देवि ! गारुडं वीर-गारुडम् ।। १६
श्रीकृष्ण-गारुडं देवि ! तदन्ते मन्त्र-गारुडम् ।
यन्त्र-गारुडकं देवि ! तदन्ते सिद्ध गारुडम् ।। १७
श्रीनाथ-गारुडं देवि ! चाघोर-गारुडं तथा ।
दशमं शाबरं नाम, गारुडं दशधा मतम् ।। १८
दशधा गारुडे देवि ! साधना शाबरोद्-गता ।
पूर्वाम्नाये वीर-शैवाः, तदन्ते वीर-वैष्णवाः ।। १९
पिशाचोच्छिष्ट-गणपाः, पश्चिमे परिकीर्तिता ।
उत्तरे घोर-भेदाश्च, ऊर्ध्वे शाबर-जातयः ।। २०
पाताले च पाशुपतास्तथा कापालिकाः शिवे !
शाबरागम-नामाख्यो महाऽऽम्नायः प्रकीर्त्तितः ।। २१
इति संक्षेपतः प्रोक्तं, श्रृणुष्व काल-शाबरम् ।
सुरया होमयेद् देवि ! सर्व-शाबर-सिद्धये ।। २२
कुमार-शाबरे देवि ! काञ्जिक्या होममाचरेत् ।
कालिका-शाबरे देवि ! डाकिन्या होममाचरेत् ।। २३
तारिणी-शाबरे देवि ! स्फाटिक्या होममाचरेत् ।
योगिनी-शाबरे देवि ! विजया-वीजमीरितम् ।। २४
श्ेीनाथ-शाबर देवि ! विजया – पत्रमेव च ।
विजया-वीज-होमेन, सर्व-शाबर-साधनम् ।। २५
विजया-पुष्प-होमेन, चातुर्वर्ण्य-क्रमेण च ।
होमयेत् परमेशानि ! पुरुषार्थ – चतुष्टये ।। २६
विजया-शाबरे देवि ! मांषेन सर्व-साधनम् ।
वीर-शाबर-तन्त्रेण, गुग्गुलं प्रथमं हुनेत् ।। २७
लोह-वाण-सुराद्यैश्च, शम्भु-शाबर-साधनम् ।
कादम्बर्या महेशानि ! दिव्य-शाबर-साधनम् ।। २८
जटामांस्या हुनेद् देवि ! काल-शाबर-साधने ।
हुनेद् रोचनया देवि ! सिद्ध-शाबर-साधने ।। २९
अघोर-शाबरे देवि ! दाडिमी-पुष्प-पूजनम् ।
तुम्बी-फलं सदा भक्ष्यं, सर्वदा मद्य-भक्षकः ।। ३०
अघोरे शाबरस्यैषा, साधना परिकीर्त्तिता ।
धानको-पुष्प-होमेन, सर्व-शाबर-साधनम् ।। ३१
कुचन्दनं चन्दनं च, कर्वीर-कुसमानि च ।
बिल्व-पुष्पाणि देवेशि ! आरक्तानि विशेषतः ।। ३२
धूपो गुग्गुल-सम्भूतः, सुरा-धाता-हुतावचि ।
नैवेद्यो मांस-सम्भूतः, सम्विद्-वीजानि चर्वणम् ।। ३३
धातकी बिल्व-पुष्पेषु, सर्व-पुष्पोत्तमोत्तमे ।
आसनं व्याघ्र-चर्मादि, मुण्ड-वीरादिकं च वा ।। ३४
माला मुण्डास्थि-सम्भूता, सर्प-मत्स्यास्थि-मालिका ।
अरिष्टजां वा सर्वार्थे, कपालं पात्रमुत्तमम् ।। ३५
यत्र तुम्बी नारिकेलं, तथैव शर्करोद्भवम् ।
गन्धर्वाख्यो महा-वेषः, सिद्ध-वेषः शुभावहः ।। ३६
श्मशाने विजनेऽरण्ये, कामिनी-नृत्य-मण्डले ।
एडूके विपिने प्रान्ते, शय्यायामंगने गृहे ।। ३७
वेश्या-वेश्मनि नद्यां च, तडागे गिरि-गह्वरे ।
शाबरं साधयेद् देवि ! भूयो वा साधयेद् यती ।। ३८
नराणां क्षत्रियाणां च, वटुकः शाबरागमः ।
नेत्र-द्वयमिदं प्रोक्तं, कल्प-मार्गेण साधयेत् ।। ३९
नेत्र-द्वयं-विहीनो यः, क्षत्रियश्चात्महा कलौ ।
नेत्र-द्वयं सदा रक्ष्यं, क्षत्रियैर्मानवैरपि ।। ४०
विना मांसेन मद्येन्, सम्विद्-वीजैर्विना प्रिये !
यः शाबरं साधयितुं, समुद्युक्तः स नश्यति ।। ४१
सुधा-सीध्वासवारिष्टैः, स्फाटिक्याद्यैरपि प्रिये ।। ४२
कादम्बरी सुमाध्वीकैर्मैरेयाद्यैरपि प्रिये !
शाबरं नार्चयेद् यस्तु, स पापीयः सुखी कथम् ।। ४३
मद्य-मांसादिना देवि ! शाबरे सर्वदाऽर्चनम् ।
शाबराणामघोराणां, मद्यादौ साधना समा ।। ४४
न शाबरे ब्रह्म-चर्यां, ब्रह्मचर्यं क्वचिद् भवेत् ।
न विद्वेषो न वा शौचो, न वा मास-विकल्पना ।। ४५
न काल-नियमः क्वापि, शाबरागम-साधने ।
इक्षु-दण्डो गुडश्चैव, मिष्ठं सर्व-विधो शिवे ! ।। ४६
शाबरादौ प्रसिद्धं च, फल-मात्रं विशेषतः ।
विजया सर्वदा भक्ष्या, मांसं भक्ष्यं सदैव तु ।। ४७
इति संक्षेपतः प्रोक्तं, किमन्यत् श्रोतुमर्हसि ।। ४८
।। इति श्रीकाली-शाबरे शिव-पार्वती-सम्वादे वटुक-प्रोक्तं परिभाषा-पटलः प्रथमं समाप्तम् ।।