Tuesday 17 August 2021

॥ श्री प्रज्ञाविवर्धन स्तोत्रम् ॥

॥ श्री प्रज्ञाविवर्धन स्तोत्रम् ॥ विनियोग — ‘ॐ अस्य श्री प्रज्ञाविवर्धन स्तोत्र मंत्रस्य सनत् कुमार ऋषिः स्वामी कार्तिकेयो देवता अनुष्टुप् छन्दः । मम सकल विद्या सिद्ध्यर्थे जपे विनियोगः । ॥ श्री गणेशाय नमः ॥ ॥ श्री स्कंद उवाच ॥ योगीश्वरो महासेनः कार्तिकेयोऽग्निनंदनः । स्कन्दः कुमारः सेनानी स्वामी शंकरसंभवः ॥ गाङ्गेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः । तारकारिरुमापुत्रः क्रौञ्चारिस्च षडाननः ॥ शब्दब्रह्म समुद्रश्च सिद्धः सारस्वतो गुहः । सनत्कुमारो भगवान् भोग मोक्ष फलप्रदः ॥ शरजन्मा गुणादीशः पूर्वजो मुक्ति मार्गकृत् । सर्वागम प्रणेता च वांछितार्थ प्रदर्शनः ॥ ॥ फलश्रुति ॥ अष्‍टाविंशतिनामानि मदीयानीति यः पठेत् । प्रत्यूषं श्रद्धया युक्‍तो मूको वाचस्पतिर्भवेत् ॥ महामंत्रमया नीति मम नामानुकीर्तनम् । महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा ॥ पुष्यनक्षत्रमारभ्य दशवारं पठेन्नरः । पुष्यनक्षत्र पयंताश्वत्थमुले दिने दिने ॥ पुरश्‍चरणमात्रेण सर्वपापैः प्रमुच्यते ॥ ॥ इति श्री रुद्रयामले प्रज्ञाविवर्धनाख्याम् श्रीमत्कार्तिकेयस्तोत्रम् संपुर्णम् ॥ ॥ श्रीकार्तिकेयार्पणमस्तु ॥ ॥ मंत्रः ॥ “नमस्ते शारदे देवि सरस्वति मतिप्रदे । वस त्वं मम जिह्वाग्रे सर्वविद्याप्रदा भव ॥”

No comments:

https://youtu.be/XfpY7YI9CHc

https://youtu.be/XfpY7YI9CHc