Sunday, 13 April 2025

नवदुर्गोपनिषत् उक्तं चाथर्वणरहस्ये ।

 


नवदुर्गोपनिषत्
उक्तं चाथर्वणरहस्ये ।
विनियोगः- ॐ अस्य श्रीनवदुर्गामहामन्त्रस्य किरातरुपधर ईश्वर ऋषिः, अनुष्टुप् छन्दः, अन्तर्यामी नारायणः किरातरुप धरेश्वरो नवदुर्गागायत्री देवता, ॐ बीजं, स्वाहा शक्तिः, क्लीं कीलकं, मम धर्मार्थकाममोक्षार्थे जपे विनियोगः ।
करन्यासः- हंसनी ह्रां अंगुष्ठाभ्यां नमः । शंखिनी ह्रीं तर्जनीभ्यां नमः । चक्रिणी ह्रूं मध्यमाभ्यां नमः । गदिनी ह्रैं अनामिकाभ्यां नमः । शरिणी ह्रौं कनिष्ठिकाभ्यां नमः । त्रिशूलधारिणी ह्रः करतलकरपृष्ठाभ्यां नमः ।
ह्रदयादिन्यासः- हंसनी ह्रां हृदयादि नमः । शंखिनी ह्रीं शिरसे स्वाहा । चक्रिणी ह्रूं शिखायै वषट् । गदिनी ह्रैं कवचाय हुम् । शरिणी ह्रौं नेत्रत्रयाय वौषट् । त्रिशूलधारिणी ह्रः अस्त्राय फट् ।
ॐ भूर्भुवः स्वरोम् इति दिग्बन्धः ।
।।ध्यानम्।।
अरिशंख कृपाण खेट बाणान्सुधनुष्क शूलमथ कर्तरीं दधाना ।
भजतां महिषोत्तमांगसंस्था नवदूर्वासदृशी श्रियेऽस्तु दुर्गा ।।
हेमप्रख्यामिन्दु खण्डान्तमौलिं शंखारिष्टाभीति हस्तां त्रिनेत्राम् ।
हेमाब्जस्थां पीतवर्णां प्रसन्नां देवीं दुर्गां दिव्यरुपां नमामि ।।
ॐ सह नाववतु सह नौ भुनक्तु सहवीर्यं करवावहै तेजस्वि
नावधीतमस्तु मा विद्विषावहै ॐ शान्तिः शान्तिः शान्तिः । ॐ हरिः ॐ ।
।। पञ्चपूजा ।।
ॐ लं पृथिव्यात्मने गन्ध समर्पयामि । ॐ हं आकाशात्मने पुष्पं समर्पयामि । ॐ यं वाय्वात्मने धूपं समर्पयामि । ॐ रं अग्न्यात्मने दीपं समर्पयामि । ॐ वं अमृतात्मने अमृतनैवेद्यं समर्पयामि ।
ॐ ऐं ह्रीं श्रीं उत्तिष्ठ पुरुष किं स्वपिषि भयं मे समुपस्थितम् । यदि शक्यमशक्यं वा तन्मे भगवति शमय शमय स्वाहा । ॐ नमश्चण्डिकायै नमः ।
हेतुकं पूर्वपीठे तु आग्नेय्यां त्रिपुरान्तकम् । दक्षिणे चाग्निवैतालं नैऋत्यां यमजिह्वकम् ।।४।।
कालाख्यं वारुणे पीठे वायव्यां तु करालिनम् । उत्तरे एकपादं तु ईशान्यां भीमरुपिणम् ।।५।।
आकाशे तु निरालम्बं पाताले वडवानलम् । यथा ग्रामे तथाऽरण्ये रक्ज़ मां बटुकस्तथा ।।६।।
सर्वमंगलमांगल्ये शिवे सर्वार्थ साधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ।।७।।
ॐ ह्रीं श्रीं दुं दुर्गायै नमः ।
प्रयोग विषये
ब्राह्मण्यै नमः । वारुणि खल्वि माहेश्वर्यै नमः । कुल्यवासिन्यै कुमारिण्यै नमः । जयन्तीपुरलाहिवाराहिण्यै नमः । अष्ट-महाकालि माहेश्वर्यै नमः । चित्रकूट इन्द्राण्यै नमः । त्रिपुरब्रह्मचारिण्यै नमः । एक वृक्षशुभिन्यै महालक्ष्म्यै नमः । त्रिपुरब्रह्माण्डनायक्यै नमः । एतानि क्ष क्षं त्रैलोक्यवशंकराणि । बीजाक्षराणि ॐ ह्रीं कुरु कुरु हुं फट् स्वाहा । ॐ ऐं ह्रीं श्रीं सकलनरमुखभ्रमरीम् । ॐ क्लीं ह्रीं सकल राजमुख भ्रमरीम् । ॐ क्रौं सौं सकलदेवतामुख भ्रमरीम् । ॐ क्लीं क्लीं सकलकामिनीमुख भ्रमरीम् । ॐ ईं सौः सकलदेशमुख भ्रमरीम् । हसखफ्रें त्रैलोक्यचित्त भ्रमरीम् । ॐ क्षं क्षां क्षिं क्षीं क्षुं क्षूं क्षें क्षैं क्षों क्षौं क्षं क्षः । उग्रभैरवादि-भूत-प्रेत पिशाचचित्त भ्रमरीं हुं क्षुं हुं क्लीं राजमन्त्र-यन्त्र भ्रमरीं हुं क्षुं हुं क्लीं सिद्ध-मन्त्र-यन्त्र-तन्त्र भ्रमरीं हुं क्षुं हुं क्लीं साध्य मन्त्र-यन्त्र-तन्त्र भ्रमरीं सकलसुरासुर सर्व-मन्त्र-यन्त्र-तन्त्र भ्रमरीं सर्वक्षोभिणी सर्वक्लेदिनी सकल मनोन्मादकरी आं ह्रीं क्रौं परम-कल्याणी महायोगिनी ।
ॐ महाविद्यां प्रवक्ष्यामि महादेवेन निर्मिताम् । चिन्तितां किरातरुपेण मारणां हृदयनन्दिनीम् ।।८।।
उत्तमा सर्व-विद्यानां सर्वभूतवशंकरी । सर्व-पापक्षयकरी सर्व-शत्रु-निवारिणी । ॐ कुलकरी गोत्रकरी धनकरी धान्यकरी बलकरी यशस्करी विद्याकरी उत्साह-बल-वर्धिनी भूतानां विजृम्णिणी स्तम्भिनी मोहिनी द्राविणी सर्व-मन्त्र-प्रभञ्जिनी सर्व-विद्या-प्रभेदिनी सर्व-ज्वरोत्सादकरी ऐकाहिकं द्वयाहिकं त्र्याहिकं चातुर्थिकमर्द्धमासिकं मासिकं द्विमासिकं त्रिमासिकं षाण्मासिकं सांवत्सरिकं वातिकं पैत्तिकं श्लेष्मिकं सान्निपातिकं सन्तत-ज्वरं शीत-ज्वरम् उष्ण-ज्वरम् विषम-ज्वरं ताप-ज्वरं च गण्डमाला लूततालु वर्णानां त्रासिनी सर्पाणां त्रासिनी सर्वान् त्रासिनी शिरःशुलाक्षिशूलकर्णशूलसन्तशूल बाहुशूल हृदयशूल कुक्षिशूल पक्षशूल गुदशूल गुल्मशूल लिंगशूल योनिशूल पादशूल सर्वांगशूल विस्फोटकादि इति आत्मरक्षा परोक्ष प्रत्यक्षरक्षा अग्निरक्षा अघोररक्षा वायु रक्षा उदकरक्षा महान्धकारोल्का विद्युदनिलचरोशस्त्रास्त्रे मां रक्ष रक्ष स्वाहा । महादेवस्य तेजसां भयंकराविष्टदेवता बन्धयामि पन्थानुगतचौराद्रक्षते बन्धकस्य कण्टकं बन्धयामि महादेवस्य पञ्चशीर्षेण पाणिना महादेवस्य तेजसा सर्वशूलान् कहपिंगलेन कण्टक मयरुद्रांगी ॐ अं आं मातंगी इं ईं मातंगी उं ऊं मातंगी ऋं ॠं मातंगी लृं ॡं मातंगी एं ऐं मातंगी ओं औं मातंगी अं अः मातंगी स्वर स्वर ब्रह्मदण्ड विश्वर विश्वर रुद्रदण्ड प्रज्वल प्रज्वल वायुदण्ड प्रहर प्रहर इन्द्रदण्ड भक्ष भक्ष निऋतिदण्ड हिलि हिलि यमदण्ड नित्योपवादिनि हंसिनी शंखिनी चक्रिणी गदिनी शूलिनी त्रिशूलधारिणी हुं फट् स्वाहा । आयुर्विद्यां च सौभाग्यं धान्यं च धनमेव च । सदा शिवं पुत्रवृद्धिं देहि मे चण्डिके शुभे ।।९।।
अथातो मन्त्रपादा भवन्ति । ॐ छायायै स्वाहा । चतुरायै स्वाहा । हलि स्वाहा । पीलि स्वाहा । हरं स्वाहा । हरहरं स्वाहा । गन्धर्वाय स्वाहा । गन्धर्वाधिपतये स्वाहा । यक्षाय स्वाहा । यक्षाधिपतये स्वाहा । रक्षसे स्वाहा । रक्षोऽधिपतये स्वाहा । ॐ भूः स्वाहा । ॐ भुवः स्वाहा । ॐ स्वः स्वाहा । ॐ भूर्भुवः स्वः स्वाहा । उल्कामुखी स्वाहा । रुद्रमुखी स्वाहा । रुद्रजटी स्वाहा । ब्रह्मविष्णुरुद्रतेजसे स्वाहा । या इमा भुत-प्रेत-पिशाच-राक्षस-नवग्रह- भूत-वेताल-शाकिनी-डाकिन्यः कूष्माण्डवासश्चत्वारो राजपुरुषः कलह-पुरुषो वा तेषां दिशं बन्धयामि । दुर्दिशोबन्धयामि । हस्तौ बन्धयामि । श्रोत्रे बन्धयामि । जिह्वां बन्धयामि । घ्राणं बन्धयामि । बुद्धिं बन्धयामि । गतिं बन्धयामि । मतिं बन्धयामि । अन्तरिक्षं बन्धयामि । पातालं बन्धयामि । यममुखेन पञ्चयोजन-विस्तीर्णं बन्धयामि । रुद्रो बध्नातु । रुद्रमण्डलं रुद्रः सह-परिवारो देवता-प्रत्यधि-देवता-सहितं रुद्र-मण्डलं प्रत्यक्षं बन्ध-बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा । त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारिकमिव बन्धनान् मृत्योर्मुक्षीय माऽमृतात् ।। १० ।।
वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। ११ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । प्राच्यां दिशि इन्द्रो देवता ऐरावतारुढो हेमवर्णो वज्रहस्त इन्द्रो बध्नातु । इन्द्रमण्डलमिन्द्रः सहपरिवारो देवता-प्रत्यधि-देवता सहित मिन्द्रमण्डलं प्रत्यक्षं बन्ध-बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। १ ।। इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । अस्माकमस्तु केवलः ।। १ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । आग्नेय्यां दिशि अग्निर्देवता मेषारुढो रक्तवर्णो ज्वालाहस्तोऽग्निर्बध्नातु । अग्निमण्डलमग्निः सहपरिवारो देवता-प्रत्यधि-देवता सहित मण्डलं प्रत्यक्षं बन्ध-बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। २ ।। ॐ अग्निं दूत वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् ।। १ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । याम्यां दिशि यमो देवता महिषारुढो नीलवर्णो दण्डहस्तो यमो बध्नातु । यममण्डलं प्रत्यक्षं बन्ध-बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ३ ।। ॐ यमाय सोमं सुनुत यमाय जुहूता हविः । यमं ह यज्ञोगच्छत्यग्निदूतो अरंकृतः ।। १ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । नैर्ऋत्यां दिशि निर्ऋतिमण्डलं निर्ऋतिः सहपरिवारो देवता-प्रत्यधि-देवता सहितं निर्ऋतिमण्डलं प्रत्यक्षं बन्ध-बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ४ ।। ॐ मोषुणः परापरा निर्ऋतिर्दुर्हणावधीत् । पदीष्ट तृष्णया सह ।। १ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । वारुण्यां दिशि वरुणो देवता मकरारुढः श्वेतवर्णः पाशहस्तो वरुणो बध्नातु । वरुणमण्डलं वरुणः सहपरिवारो देवता-प्रत्यधि-देवता सहित वरुणमण्डलं प्रत्यक्षं बन्ध-बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ५ ।। ॐ इमं मे॰ ।। १ ।। तत्त्वा यामि॰ ।। २ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। ३ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । वायव्यां दिशि वायुर्देवता मृगारुढो धूम्रवर्णो ध्वजहस्तो वायुर्बध्नातु । वायुमण्डलं वायुः सहपरिवारो देवता-प्रत्यधि-देवता सहित वायुमण्डलं प्रत्यक्षं बन्ध-बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ६ ।। ॐ तव वायवृतस्पते त्वष्टुर्जामातरद्भुत । आवाँस्या वृणीमहे ।। १ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । कौबेर्यां दिशि कुबेरो देवता अश्वारुढः पीतवर्णो गदाङ्कुशहस्तः कुबेरो बध्नातु । कुबेरमण्डलं कुबेरः सहपरिवारो देवता-प्रत्यधि-देवता सहित कुबेरमण्डलं प्रत्यक्षं बन्ध-बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ७ ।। ॐ सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति । सादन्यं विदथ्यं सभेयं पितृश्रवणं यो देदाशदस्मै ।। १ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ईशान्यां दिशि ईशानो देवता वृषारुढः स्फटिकवर्णस्त्रिशूलहस्त ईशानो बध्नातु । ईशानमण्डलमीशानः सहपरिवारो देवता-प्रत्यधि-देवता सहित मीशानमण्डलं प्रत्यक्षं बन्ध-बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ८ ।। ॐ तमीसानं जगतस्तस्थुषस्पतिं धियं जिन्वमवसे हूमहे वयम् । पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये ।। १ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ऊर्ध्वायां दिशि ब्रह्मा देवता हंसारुढो रक्तवर्णः कमण्डलु-हस्तो ब्रह्मा बध्नातु । ब्रह्म-मण्डलं ब्रह्मा सहपरिवारो देवता-प्रत्यधि-देवता सहितं ब्रह्म-मण्डलं प्रत्यक्षं बन्ध-बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ९ ।। ॐ ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् ।। १ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । अधस्ताद्दिशि वासुकि देवता कूर्मारुढः पद्महस्तो वास्तुकिः बध्नातु । वासुकिमण्डलं वासुकिः सहपरिवारो देवता-प्रत्यधि-देवता सहित वासुकिमण्डलं प्रत्यक्षं बन्ध-बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। १० ।। ॐ नमो अस्तु सर्पेभ्यो॰ ।। १ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । अवान्तरस्यां दिशि विष्णुर्देवता गरुडारुढः श्यामवर्णश्चक्रहस्तो विष्णुर्बध्नातु । विष्णुमण्डलं विष्णुः सहपरिवारो देवता-प्रत्यधि-देवता सहित विष्णुमण्डलं प्रत्यक्षं बन्ध-बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ११ ।। ॐ इदं विष्णुर्विचक्रमे॰ ।। १ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । प्राच्यां दिशि इन्द्रः सहपरिवारो देवता-प्रत्यधि-देवतास्तद्दिक्षु त्रिशूलको नाम राक्षसः शाकिनी डाकिनी काकिनी हाकिनी याकिनी राकिनी वैतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। १ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । आग्नेय्यां दिशि अग्निः सहपरिवारो देवता-प्रत्यधि-देवतास्तद्दिक्षु मारीचको नाम राक्षसस्तस्य अष्टादशकोटि भूत-प्रेत-पिशाच ब्रह्मराक्षस शाकिनी डाकिनी काकिनी हाकिनी याकिनी राकिनी वैतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। २ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । याम्यां दिशि यमः सहपरिवारो देवता-प्रत्यधि-देवतास्तद्दिक्षु एकपिङ्लको नाम राक्षसस्तस्य अष्टादशकोटि भूत-प्रेत-पिशाच ब्रह्मराक्षस शाकिनी डाकिनी काकिनी हाकिनी याकिनी राकिनी वैतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ३ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। ३ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । नैऋत्यां दिशि निऋतिः सहपरिवारो देवता-प्रत्यधि-देवतास्तद्दिक्षु सत्यको नाम राक्षसस्तस्य अष्टादशकोटि भूत-प्रेत-पिशाच ब्रह्मराक्षस शाकिनी डाकिनी काकिनी हाकिनी याकिनी राकिनी वैतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ४ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। ४ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । प्रतीच्यां दिशि वरुणः सहपरिवारो देवता-प्रत्यधि-देवतास्तद्दिक्षु लम्बको नाम राक्षसस्तस्य अष्टादशकोटि भूत-प्रेत-पिशाच ब्रह्मराक्षस शाकिनी डाकिनी काकिनी हाकिनी याकिनी राकिनी वैतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ५ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। ५ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । वायव्यां दिशि वायुः सहपरिवारो देवता-प्रत्यधि-देवतास्तद्दिक्षु प्रलम्बको नाम राक्षसस्तस्य अष्टादशकोटि भूत-प्रेत-पिशाच ब्रह्मराक्षस शाकिनी डाकिनी काकिनी हाकिनी याकिनी राकिनी वैतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ६ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। ६ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । कौबेर्यां दिशि कुबेरः सहपरिवारो देवता-प्रत्यधि-देवतास्तद्दिक्षु अश्वालको नाम राक्षसस्तस्य अष्टादशकोटि भूत-प्रेत-पिशाच ब्रह्मराक्षस शाकिनी डाकिनी काकिनी हाकिनी याकिनी राकिनी वैतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ७ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। ७ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ईशान्यां दिशि ईशानः सहपरिवारो देवता-प्रत्यधि-देवतास्तद्दिक्षु उन्मत्तको नाम राक्षसस्तस्य अष्टादशकोटि भूत-प्रेत-पिशाच ब्रह्मराक्षस शाकिनी डाकिनी काकिनी हाकिनी याकिनी राकिनी वैतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ८ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। ८ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । उर्ध्वायां दिशि ब्रह्मा सहपरिवारो देवता-प्रत्यधि-देवतास्तद्दिक्षु आकाश वासी नाम राक्षसस्तस्य अष्टादशकोटि भूत-प्रेत-पिशाच ब्रह्मराक्षस शाकिनी डाकिनी काकिनी हाकिनी याकिनी राकिनी वैतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ९ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। ९ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । अधस्ताद्दिशि वासुकिः सहपरिवारो देवता-प्रत्यधि-देवतास्तद्दिक्षु पातालवासी नाम राक्षसस्तस्य अष्टादशकोटि भूत-प्रेत-पिशाच ब्रह्मराक्षस शाकिनी डाकिनी काकिनी हाकिनी याकिनी राकिनी वैतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। १० ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । आवान्तरस्यां दिशि विष्णुः सहपरिवारो देवता-प्रत्यधि-देवतास्तद्दिक्षु महाभीमको नाम राक्षसस्तस्य अष्टादशकोटि भूत-प्रेत-पिशाच ब्रह्मराक्षस शाकिनी डाकिनी काकिनी हाकिनी याकिनी राकिनी वैतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ११ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । प्राच्यां दिशि । ॐ नमो भगवते इन्द्राणिवज्रहस्ताभ्यां सपरिवारकस्य सर्वतो रक्ष रक्ष हुंजटी स्वाहा । अव ब्रह्मद्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । आग्नेय्यां दिशि । ॐ नमो भगवते अग्निज्वालहस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुंजटी स्वाहा । अव ब्रह्मद्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । याम्यां दिशि । ॐ नमो भगवते यमकालदण्डहस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुंजटी स्वाहा । अव ब्रह्मद्विषो जहि ।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । नैर्ऋत्यां दिशि । ॐ नमो भगवते खड्गकंकालहस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुंजटी स्वाहा । अव ब्रह्मद्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । वारुण्यां दिशि । ॐ नमो भगवते वारुणिपाशहस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुंजटी स्वाहा । अव ब्रह्मद्विषो जहि ।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । वायव्यां दिशि । ॐ नमो भगवते वायविवेधहस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुंजटी स्वाहा । अव ब्रह्मद्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । कौबेर्यां दिशि । ॐ नमो भगवते कौबेरीगदांकुशहस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुंजटी स्वाहा । अव ब्रह्मद्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ईशान्यां दिशि । ॐ नमो भगवते ईशानित्रिशूलडमरुहस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुंजटी स्वाहा । अव ब्रह्मद्विषो जहि ।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ऊर्ध्वयां दिशि । ॐ नमो भगवते ब्रह्माणि स्रुक्-स्रुवकमण्डलल्वक्षसूत्रांकुशहस्तैः मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुंजटी स्वाहा । अव ब्रह्मद्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ॐ नमो पातालवासिनि विषगलहस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुंजटी स्वाहा । अव ब्रह्मद्विषो जहि ।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । अवान्तरस्यां दिशि । ॐ नमो भगवते श्रीमहालक्ष्मी पद्मारुढा पद्महस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुंजटी स्वाहा । अव ब्रह्मद्विषो जहि ।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । शिरो रक्षतु ब्रह्माणी मुखं माहेश्वरी तथा कण्ठं रक्षतु वाराही ऐन्द्री चैव भुजद्वयम् ।। १ ।। चामुण्डा हृदयं रक्षेत्कुक्षिं रक्ज़ेच्च वारुणी । वैष्णवी रक्ष पादौ मे पृष्ठदेशे धनुर्धरी ।। २ ।। यथा ग्रामे तथा क्षेत्रे रक्षस्व मां पदे पदे । सर्व-मङ्ल-माङ्गल्ये शिवे सर्वार्थ-साधिके । शरण्य-त्र्यम्बके गौरि नारायणि नमोस्तुऽते ।। ३ ।।
ॐ ब्राह्मि माहेश्वरि कौमारि वैष्णवि वाराहि इन्द्राणि चामुण्डे सिद्धचामुण्डेश्वरि गणेश्वरि क्षेत्रपाल नारसिंहि महालक्ष्मि सर्वतो दुर्गे हुं फट् स्वाहा । ॐ ऐं ह्रीं श्रीं दुं हुं फट् । कनक-वज्रवैदुर्य-मुक्तालङकृत-भूषणे एहि एहि आगच्छ आगच्छ मम कर्णे प्रविश्य भूत-भविष्य-वर्तमान-काल-ज्ञान दूरदृष्टि-दूर-श्रवणं ब्रुहि-ब्रुहि अग्नि-स्तम्भन-शत्रु-स्तम्भन शत्रु-मुख-स्तम्भन शत्रु-गति-स्तम्भन शत्रु-मति-स्तम्भन परेषांगति सर्वमति-शत्रूणां वाग्जृम्भणं स्तम्भनं कुरु कुरु शत्रु-कार्य-हानि-करि मम कार्यसिद्धिकरि शत्रूणामुद्योग-विध्वंसकरि वीरचामुण्डि निहाटकहाटक धारिणी नगरी-पुरी-पट्टणआस्थान संमोहिनी असाध्य-साधिनी । ॐ ह्रीं श्रीं देवि हन हुं फट् स्वाहा ।। १ ।।
ॐ आं ह्रीं सौं ऐं क्लीं ह्रूं सौः ग्लौं श्रीं क्रौं एहि एहि भ्रमराम्बा हि सकलजगन्मोहनाय मोहनाय सकलाण्डजपिण्डजान् भ्रामय भ्रामय जरा प्रजावशंकरि संमोहय संमोहय महामाये अष्टादशपीठरुपिणि अमलवरयूं स्फुर स्फुर प्रस्फुर प्रस्फुर कोटि-सूर्य-प्रभाभासुरि चन्द्रजटी मां रक्ष रक्ष मम शत्रून् भस्मीकुरु भस्मीकुरु विश्वमोहिनी हुं क्लीं हुं हुं फट् स्वाहा ।। २ ।।
ॐ नमो भगवते कामदेवाय इन्द्राय वसाबाणाय इन्द्र संदीपबाणाय क्लीं क्लीं संमोहनबाणाय ब्लूं ब्लूं संतापनबाणाय सः सः वशीकरणबाणाय कम्पित कम्पित हुं फट् स्वाहा । क्लीं नमो भगवते कामदेवाय श्रीं सर्व-जन-प्रियाय सर्व-जन-सम्मोहनाय ज्वल-ज्वल प्रज्वल-प्रज्वल हन-हन वद-वद तप-तप सम्मोहय सम्मोहय सर्व जनं मे वशं कुरु कुरु स्वाहा ।। ३ ।।
ॐ ह्रां श्रीं ष्णीं क्ष्म्प्रैं हूस्त्रौं सहस्राराय हुं फट् स्वाहा । ॐ नमो विष्णवे । ॐ नमो नारायणाय । ॐ जय जय गोपीजन-वल्लभाय स्वाहा । सहस्रार ज्वालावर्त क्ष्म्प्रौं हन-हन हुं फट् स्वाहा । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । श्रीमन्नारायणस्य चरणौ शरणं प्रपद्ये । श्रीमते नारायणाय नमः । उग्रवीरं महा-विष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंह भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ।। ४ ।।
भगवन् सर्व-विजय सहस्राराय राजित । शरणं त्वां प्रपन्नोऽस्मि श्रीकरं श्रीसुदर्शनम् ।। ५ ।।
अरुणी वारुणी चैव सविग्रहनिवारिणी । सर्व-कर्मकरि । ॐ भूः स्वाहा । ॐ भुवः स्वाहा । ॐ स्वः स्वाहा । ॐ भूर्भुवः स्वः स्वाहा । अष्टौ ब्राह्मणान् सम्यक् ग्राहयित्वा । ततो महाविद्या सिद्धयति । अशिक्षितं नोपयुञ्जीत । अहं न जाने न च पार्वतीश एक विंशतिवाराणि परिजाप्य शुचिर्भवेत् ।। ६ ।।
पत्रं पुष्पं फलं दद्यात् स्त्रियो वा पुरुषोऽपि वा । अवश्यं वशमित्याहुरात्मना च परेण वा ।। ७ ।। महाविद्यावतां पुंसां मनः क्षेत्रं करोति यः । सप्तरात्रौ व्यतीतायां शत्रूणां तद्विनश्यति ।। ८ ।। ॐ कुबेर ते मुखं रौद्रं नन्दिमानन्दिमावह । ज्वरं मृत्युभयं घोरं विषं नाशय मे ज्वर ।। ९ ।।
ॐ नमो भगवते रुद्राय हृदये अमृताभिवर्षाय मम ज्वर-रोग-शांति कुर-कुरु स्वाहा । ॐ काल-काल महा-काल काल-दण्ड नमोस्तुऽते । कालदण्ड-निपातेन भूम्यामन्तर्हितं ज्वरं हन्ति । लिखित्वा यस्तु पश्यति समुद्रस्योत्तरे तीरे मारीचो नाम राक्षसस्तस्य मूत्रपुरीषाभ्यां हुताशनं शमय शमय स्वाहा । हिमवत्युत्तरे पार्श्वे चपला नाम यक्षिणी । तस्या नूपुरशब्देन विशल्या भव गर्भिणी । जातवेदसे सुन वाम सोममरातीयतो निदहाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरिताऽत्यग्निः ।। १०
भास्कराय विद्महे महद्द्युतिकराय धीमहि । तन्नः सूर्यः प्रचोदयात् ।। १ ।। ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । प्रतिकूलकारिणी नश्येत् । अनुकूलकारिणी अस्तु । महा-देवी च विद्महे विष्णु-पत्नी च धीमहि । तन्नो लक्ष्मी प्रचोदयात् ।। २ ।।
ॐ ब्रूं ह्रीं श्रीं ब्रह्मकोशजी मां रक्ष-रक्ष हुं जटी स्वाहा । पञ्चम्यां च नवम्यां च दशम्यां च विशेषतः । पठित्वा तु महाविद्यां श्रीकामः सर्वदा पठेत् ।। ११ ।।
ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् । श्रीर्मे भजतु । अलक्ष्मीर्मे नश्यतु ।। १ ।। यदन्ति यच्च दूरके भयं विन्दति मामिह । पवमानवितज्जहि । यदुत्थितं दुःखं भवति तत्सर्वं शमय शमय स्वाहा ।। २ ।। ॐ गायत्र्यै स्वाहा । ॐ सावित्र्यै स्वाहा । ॐ सरस्वत्यै स्वाहा । तत्पुरुषाय विद्महे सहस्राक्षाय धीमहि । तन्नः इन्द्रः प्रचोदयात् ।। ३ ।। तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ।। ४ ।। तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्तिः प्रचोदयात् ।। ५ ।। तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि । तन्नो नन्दिः प्रचोदयात् ।। ६ ।। तत्पुरुषाय विद्महे महासेनाय धीमहि । तन्नो षण्मुखः प्रचोदयात् ।। ७ ।। तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि । तन्नो गरुडः प्रचोदयात् ।। ८ ।। वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि । तन्नो ब्रह्म प्रचोदयात् ।। ९ ।। नारायणाय विद्महे वासुदरवाय धीमहि । तन्नो विष्णुः प्रचोदयात् ।। १० ।। मन्मथेशाय विद्महे कामदेवाय धीमहि । तन्नोऽनङ्ग प्रचोदयात् ।। ११ ।। वज्रनखाय विद्महे तीक्ष्णदँष्ट्राय धीमहि । तन्नो नारसिंहः प्रचोदयात् ।। १२ ।। भास्कराय विद्महे महद्द्युतिकराय धीमहि । तन्नो आदित्यः प्रचोदयात् ।। १३ ।। वैश्वानराय विद्महे लालीलाय धीमहि । तन्नो अग्निः प्रचोदयात् ।। १४ ।। कात्यायनाय विद्महे कन्यकुमारि धीमहि । तन्नो दुर्गेः प्रचोदयात् ।। १५ ।।
सहस्रपरमा देवी शतमूला शतांकुरा । सर्व हरतु मे पापं दूर्वा दुःस्वप्ननाशिनी ।। १२ ।। काण्डात्काण्डात्प्ररो हन्ती॰ । अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुंधरे । शिरसा धारयिष्यामि रक्षस्व मां पदे पद ।। १३ ।। अत्रिणा त्वा क्रिमे हन्मिकण्वेन जमदग्निना । विश्वावसोर्ब्रह्मणा हतः कृमीणा राजा अप्येषाः स्थपतिर्हतः । अथो माताऽथो पिता अथो स्थूरा अथो क्षुद्राः अथो कृष्णाः अथो श्वेताः अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्यश्रुतस्य हविषो यथा तत्सत्यं यदमुं यमस्य जम्भयोः आदधामि तथा हि तत् । खण्फण्म्रसि ब्रह्मणा त्वा शपामि । ब्रह्मणस्त्वा शपथेन शपामि । घोरेण त्वा भृगूणां चक्षुषा प्रेक्षे । रौद्रेण त्वाऽङ्गिरसा मनसा ध्यायामि । अघस्य त्वा धारया विध्यामि । अधरो मत्पद्यस्वासौ उत्तुद शिमिजा वरि तल्पेजे तल्प उत्तुद गिरी रनुप्रवेशय मरीचीरुपसंनुद यावदितः पुरस्तादुदयाति सूर्यः तावदितोऽमुं नाशय योऽस्मान् द्वेष्टि यं च वयं द्विष्मः खट् फट् जहि छिन्धि छिन्धि हन्धि कट् इति वाचः क्रूराणि परिबाहिणीदं नमस्ते अस्तु मा मा हि सीः द्विषन्तं मेऽभिनाशय तं मृत्यो मृत्यवे नय अरिष्टं रक्ष अरिष्टं भञ्ज भञ्ज स्वाहा ।
ॐ ह्रीं कृष्णवाससे नारसिंहवदे महाभैरवि ज्वल ज्वल विद्युज्ज्वलज्ज्वालाजिह्वे करालवदने प्रत्यङ्गिरे क्ष्म्रीं क्ष्म्यैं नमो नारायणाय घ्रिणुः सूर्यादित्यों सहस्रा हुं फट् । अव ब्रह्मद्विषोजहि । सर्पोलूक काक कङ्क कपोतादि वृश्चिकोग्रदंष्ट्राकरोग्रविषान्मे महा-भूत-प्रेत-पिशाच-रा्क्षस सकल-किल्विषादि महारोगविषाग्निरोगविषं कुरु-कुरु स्वाहा । अक्षिस्पन्दं च दुःस्वप्नं भुजस्पन्दं च दुर्मतिम् । दुश्चिह्नं दुर्गतिं रोगं भयं नाशय शांकरि ।। १४ ।।
महा-विद्यां कृतवतो योस्माकं द्वेष्टि योऽरिष्टं स्मरति यावदेकविंशतिं कृत्वा तावदधिकं नाशय । ब्रह्मविद्यामिमां देवि नित्यं सेवेत यः सुधीः । ऐहाकामुष्मिकं सौख्यं सिद्धयत्येव न संशयः ।। १५ ।। एनां विद्यां महा-विद्यां यो दूषयति मानवः । सो ऽवश्यं नाशमाप्नोति षण्मासादचिरेण वै ।। १६ ।। अग्रतः पृष्ठतः पार्श्वे ऊर्ध्वतो रक्ष मे सदा । चण्डघण्टा विरुपाक्षी त्वां भजे जगदीश्वरीम् ।। १७ ।। एवंविधां महाविद्यां त्रिसन्ध्यं स्तौति मानवः । दृष्ट्वा जनैर्दुष्टजनाः सर्वमोहवशं गताः ।। १८ ।। तामग्नि वर्णां तपसा ज्वलन्तीं वैरोचनी कर्मफलेषु जुष्टाम् । दुर्गां देवीं शरणमहं प्रपद्ये सुतरां दुःशमनाये गताः ।। १९ ।। मातर्मे मधु कैटभघ्रि महिषप्राणापहारोद्यमे हेलानिर्मितधूम्रलोचनवधे हे चण्ड-मुण्डार्दिनि । निःशेषीकृतरक्तबीजदनुजे नित्ये निशुम्भापहे शुम्भध्वंसिनि संहराशु दुरितं दुर्गे नमस्तेऽम्बिके ।। २० ।। कालदण्डपरं मृत्युविजया बन्धयाम्यत्हम् । पञ्चयोजनविस्तीर्णं मृत्योश्च मुख मण्डलम् । तस्माद्रक्ष महाविद्ये भद्रकालि नमोस्तुऽते ।। २१ ।।
अव ब्रह्मद्विषो जहि । वारिजलोचन-सहपरीगतिं वारयासुरकरनिकरैः पूरितमेघद्रुगानां दापितागोपकन्यके सहोदरवतु । अव ब्रह्मद्विषो जहि । ॐ ह्रीं श्रीं क्लीं सिद्धलक्ष्मी स्वाहा । ॐ क्लीं ह्रीं श्रीं ॐ आवहन्ती वितन्वाना कुर्वाणा चीरमात्मनः । वासा सि मम गावश्च अन्नपाने च सर्वदा । ततो मे श्रिय आनिरियाय श्रियं वयो जरितृभ्यो दधाति । श्रियं वसाना अमृततत्वमायन् भवन्ति सत्या समिथा मितद्रौ श्रिय एवैनं तच्छ्रियामादधाति संततमृचा वषट्कृत्यं संतत्यै संधियते प्रजया पशुभिर्य एवं वेद । ॐ ह्रीं श्रीं क्लीं क्लूं प्रों हुं फट् स्वाहा । अव ब्रह्मद्विषो जहि ॐ सह नाववतु सह नौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ।।

Saturday, 1 February 2025

अगस्त्य ऋषि कृत सरस्वती स्तोत्रम्

 

अगस्त्य ऋषि कृत सरस्वती स्तोत्रम् 

देवी सरस्वती को समर्पित एक पवित्र मंत्र है, जिन्हें ज्ञान, बुद्धि और शिक्षा के रूप में पूजा जाता है। माना जाता है कि इस स्तोत्रम् की रचना महान ऋषि अगस्त्य ने की थी, जिन्हें सबसे प्रतिष्ठित संतों में से एक माना जाता है। अगस्त्य सरस्वती स्तोत्रम् का जाप भक्तों द्वारा देवी सरस्वती का आशीर्वाद प्राप्त करने के लिए ज्ञान, बुद्धि और उनके शैक्षणिक और व्यावसायिक कार्यों में सफलता प्राप्त करने के लिए किया जाता है।

🌷🌷🌷अगस्त्य ऋषि कृत सरस्वती स्तोत्रम् 🌷🌷🌷

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा पूजिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा॥1॥

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालान्दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥2॥

सुरासुरसेवितपादपङ्कजा
करे विराजत्कमनीयपुस्तका।
विरिञ्चिपत्नी कमलासनस्थिता
सरस्वती नृत्यतु वाचि मे सदा॥3॥

सरस्वती सरसिजकेसरप्रभा
तपस्विनी सितकमलासनप्रिया।
घनस्तनी कमलविलोललोचना
मनस्विनी भवतु वरप्रसादिनी॥4॥

सरस्वति नमस्तुभ्यं वरदे कामरूपिणि।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा॥5॥

सरस्वति नमस्तुभ्यं सर्वदेवि नमो नमः।
शान्तरूपे शशिधरे सर्वयोगे नमो नमः॥6॥

नित्यानन्दे निराधारे निष्कलायै नमो नमः।
विद्याधरे विशालाक्षि शुद्धज्ञाने नमो नमः॥7॥

शुद्धस्फटिकरूपायै सूक्ष्मरूपे नमो नमः।
शब्दब्रह्मि चतुर्हस्ते सर्वसिद्ध्यै नमो नमः॥8॥

मुक्तालङ्कृतसर्वाङ्ग्यै मूलाधारे नमो नमः।
मूलमन्त्रस्वरूपायै मूलशक्त्यै नमो नमः॥9॥

मनो मणिमहायोगे वागीश्वरि नमो नमः।
वाग्भ्यै वरदहस्तायै वरदायै नमो नमः॥10॥

वेदायै वेदरूपायै वेदान्तायै नमो नमः।
गुणदोषविवर्जिन्यै गुणदीप्त्यै नमो नमः॥11॥

सर्वज्ञाने सदानन्दे सर्वरूपे नमो नमः।
सम्पन्नायै कुमार्यै च सर्वज्ञे नमो नमः॥12॥

योगानार्य उमादेव्यै योगानन्दे नमो नमः।
दिव्यज्ञान त्रिनेत्रायै दिव्यमूर्त्यै नमो नमः॥13॥

अर्धचन्द्रजटाधारि चन्द्रबिम्बे नमो नमः।
चन्द्रादित्यजटाधारि चन्द्रबिम्बे नमो नमः॥14॥

अणुरूपे महारूपे विश्वरूपे नमो नमः।
अणिमाद्यष्टसिद्ध्यायै आनन्दायै नमो नमः॥15॥

ज्ञानविज्ञानरूपायै ज्ञानमूर्ते नमो नमः।
नानाशास्त्रस्वरूपायै नानारूपे नमो नमः॥16॥

पद्मदा पद्मवंशा च पद्मरूपे नमो नमः।
परमेष्ठ्यै परामूर्त्यै नमस्ते पापनाशिनि॥17॥

महादेव्यै महाकाल्यै महालक्ष्म्यै नमो नमः।
ब्रह्मविष्णुशिवायै च ब्रह्मनार्यै नमो नमः॥18॥

कमलाकरपुष्पा च कामरूपे नमो नमः।
कपालि कर्मदीप्तायै कर्मदायै नमो नमः॥19॥

सायं प्रातः पठेन्नित्यं षण्मासात् सिद्धिरुच्यते।
चोरव्याघ्रभयं नास्ति पठतां शृण्वतामपि॥20॥

इत्थं सरस्वतीस्तोत्रम् अगस्त्यमुनिवाचकम्।
सर्वसिद्धिकरं नॄणां सर्वपापप्रणाशणम्॥21॥

॥ इति श्री अगस्त्यमुनिप्रोक्तं सरस्वतीस्तोत्रं सम्पूर्णम् ॥

॥ सरस्वतीरहस्योपनिषत् ॥

 

॥ सरस्वतीरहस्योपनिषत् ॥

(हिन्दी भावार्थ सहित)

🍁प्रतियोगिविनिर्मुक्तब्रह्मविद्यैकगोचरम् ।
अखण्डनिर्विकल्पं तद्रामचन्द्रपदं भजे ॥
''भावार्थ -जो प्रतिस्पर्धा से मुक्त, निरपेक्ष का एकमात्र दृश्यमान ज्ञान है।
मैं उन भगवान रामचन्द्र के उन अखण्ड एवं अमोघ चरण कमलों की पूजा करता हूँ।

🍁ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठित-
माविरावीर्म एधि ॥ वेदस्य म आणीस्थः श्रुतं मे
प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधामि ऋतं वदिष्यामि
सत्यं वदिष्यामि तन्मामवतु अवतु मामवतु वक्तार-
मवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

👉भावार्थ ---ओम, से ईश्वर मेरी वाणी मेरे मन में स्थापित हो जाए, ।मेरा मन मेरी वाणी में स्थापित हो,
स्वयं प्रकट आत्मा का ज्ञान मुझमें विकसित हो,
वेदों के ज्ञान का अनुभव करने के लिए मेरा मन और वाणी सहारा बनें,
जो मैंने (वेदों से) सुना है वह मात्र दिखावा न हो...
लेकिन दिन-रात अध्ययन से जो मिलता है, उसे याद रखना चाहिए।
मैं दिव्य सत्य के बारे में बोलता हूं,
मैं परम सत्य के बारे में बोलता हूं,
वह मेरी रक्षा करें,
वह उपदेशक की रक्षा करे,
वह मेरी रक्षा करें,
वह गुरु की रक्षा करे, वह गुरु की रक्षा करे,
ॐ शांति! शांति! शांति!
👉ॐ !मेरे अन्दर शान्ति हो।
मेरे वातावरण में शान्ति हो।
मेरे ऊपर काम कर रही शक्तियों में शान्ति हो ॥

हरिः ॐ |
ऋषयो ह वै भगवन्तमाश्वलायनं संपूज्य पप्रच्छुः
ऋषियों ने आदर के साथ पूज्य अश्वलायन से पूछा

🍁केनोपायेन तज्ज्ञानं तत्पदार्थावभासकम् ।
यदुपासनया तत्त्वं जानासि भगवन्वद ॥ १ ॥

सभी को प्रकाशित करने वाला ज्ञान किस प्रकार प्राप्त किया जाता है । आप किस का ध्यान कर कर सत्य जानते हैं ।

🍁सरस्वतीदशश्लोक्या सऋचा बीजमिश्रया ।
स्तुत्वा जप्त्वा परां सिद्धिमलभं मुनिपुङ्गवाः ॥ २ ॥

सर्वश्रेष्ठ ज्ञानीयो! में सरस्वती जी की इन दस श्लोकों व बीज मन्त्र के द्वारा उपासना करके परम सिद्धीयां प्राप्त करता हूं ।

🍁ऋषयः ऊचुः ।
कथं सारस्वतप्राप्तिः केन ध्यानेन सुव्रत ।
महासरस्वती येन तुष्टा भगवती वद ॥ ३ ॥

ऋषियों ने पूछा । किस ध्यान के द्वारा सरस्वति जी की प्राप्ति संभव है । महान एवं पावन सरस्वति जी को किस प्रकार प्रसन्न किया जा सकता है॥

.🍁स होवाचाश्वलायनः ।
अस्य श्रीसरस्वतीदशश्लोकीमहामन्त्रस्य ।
अश्वलायन दस श्लोकों के इस मन्त्र के वारे में बोले ।

🍁अहमाश्वलायन ऋषिः । अनुष्टुप् छन्दः । श्रीवागीश्वरी देवता । यद्वागिति बीजम् । देवीं वाचमिति शक्तिः ।

मैं अश्वलायन ऋषि । अनुष्टुप् छन्द । श्रीवागीश्वरी देवता । यद्वग बीज । देवी वाचम शक्ति ।

🍁ॐ प्रणो देवीति कीलकम् । विनियोगस्तत्प्रीत्यर्थे ।
श्रद्धा मेधा प्रज्ञा धारणा वाग्देवता महासरस्वतीत्येतैरङ्गन्यासः ॥
ॐ प्रणो देवि कीलक । मन्त्र का अनुप्रयोग देवि को प्रसन्न करना । श्रद्धा, बुद्धि, ज्ञान, स्मृति तथा धारणा के द्वारा वाणी की देवी महासरस्वती जी का आह्वान ॥

🍁ध्यान
नीहारहारघनसारसुधाकराभां कल्याणदां कनकचम्पकदामभूषाम् ।
उत्तुङ्गपीनकुचकुम्भमनोहराङ्गीं वाणीं।
नमामि मनसा वचसा विभूत्यै ॥ १ ॥

प्रचुरता के साथ वाणी के संयम को प्राप्त करने के लिए मैं सरस्वती जी अभिवादन करता हूं , जो बर्फ़, मोती, कपूर तथा चन्द्रमा के समान प्रकाशित हैं; जो शुभ फलों को प्रदान करने वाली हैं; जो सुनहरे चंपक पुष्प पुंज की माला पहने हैं; मन को हर लेने वाली हैं ॥

🍁ॐ प्रणो देवीत्यस्य मन्त्रस्य भरद्वाज ऋषिः ।
गायत्री छन्दः । श्रीसरस्वती देवता । प्रणवेन बीजशक्तिः कीलकम् ।
इष्टार्थे विनियोगः । मन्त्रेण न्यासः ॥

ॐ प्रणो देवि । भरद्वाज ऋषि । गायत्री छन्द । श्रीसरस्वती देवता । ॐ बीजशक्ति कीलक । मनोवांछित फल प्राप्ति के लिए इस मन्त्र के द्वारा अभिषेक ।।

या वेदान्तार्थतत्त्वैकस्वरूपा परमार्थतः ।
नामरूपात्मना व्यक्ता सा मां पातु सरस्वति ॥

जिनका स्वभाव वेदान्त का सार है, जो परम अर्थ हैं, जो नाम और रूप में प्रकट हुई हैं – वो सरस्वति मेरी रक्षा करें ॥

🍁ॐ प्रणो देवी सरस्वती वाजेभिर्वाजेनीवती ।
धीनामवित्र्यवतु ॥ १ ॥

ॐ ! माँ सरस्वति, पुष्टिकारक पदार्थों को देने वाली, विचारों की रक्षक , वो हमारी हमेशा रक्षा करें ॥

आ नो दिव इति मन्त्रस्य अत्रिरृषिः । त्रिष्टुप् छन्दः । सरस्वती देवता ।
ह्रीमिति बीजशक्तिः कीलकम् । इष्टार्थे विनियोगः । मन्त्रेण न्यासः ॥

आ नो देवि । अत्रि ऋषि । त्रिष्टुप छन्द । श्रीसरस्वती देवता । ह्री बीजशक्ति कीलक ।
मनोवांछित फल प्राप्ति के लिए इस मन्त्र के द्वारा अभिषेक ।।

🍁या साङ्गोपाङ्ग वेदेषु चतुर्श्वेकैव गीयते ।
अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती ॥१

जिन अकेली की चारों वेदों तथा वेदागों में स्तुति की गई है । एक मात्र ब्रह्मण शक्ति – वो सरस्वति मेरी रक्षा करें ॥

🍁ह्रीं आ नो दिवो बृहतः पर्वतादा सरस्वती यजतागं तु यज्ञम् ।
हवं देवी जुजुषाणा घृताची शग्मां नो वाचमुषती श्रुणोतु ॥ २ ॥

ह्रीं, स्वर्ग से,विशाल बाद्लों से, पवित्र सरस्वती हमारे यज्ञ में आऎं । हमारे आवाहन को कृपापूर्वक सुनें, जल की देवी स्वेच्छा से हमारी अर्चना सुनें ॥

पावका न इति मन्त्रस्य । मधुच्छन्द ऋषिः । गायत्री छन्दः । सरस्वती देवता ।
श्रीमिति बीजशक्तिः कीलकम् । इष्टार्थे विनियोगः । मन्त्रेण न्यासः ॥

पावक मन्त्र । मधुच्छन्द ऋषि । गायत्री छन्द । सरस्वती देवता । श्री बीजशक्ति कीलक । मनोवांछित फल प्राप्ति के लिए इस मन्त्र के द्वारा अभिषेक ।।

या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते ।
अनादिनिधनानन्ता सा मां पातु सरस्वती ॥

जो अकेले का अक्षर, शब्द, वाक्य तथा अर्थ में अस्तित्व है । जिनका न आरम्भ है और न हि अन्त – वो सरस्वति मेरी रक्षा करें ॥

🍁श्रीं पावका नः सरस्वती वाजेभिर्वाजिनीवती ।
यज्ञं वष्टु धिया वसुः ॥ ३ ॥

श्री, पवित्र करने वाली सरस्वती, पुष्टिकारक पदार्थों को देने वाली, ज्ञान का भंडार - वो हमारे यज्ञ को स्वीकार करें ॥

चोदयत्रीति मन्त्रस्य मधुच्छन्द ऋषिः । गायत्री छन्दः । सरस्वती देवता ।
ब्लूमिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ॥

चोदयत्री मन्त्र । मधुच्छन्द ऋषि । गायत्री छन्द । सरस्वती देवता । ब्लू बीजशक्ति कीलक । मन्त्र के द्वारा अभिषेक ।।

अध्यात्ममधिदैवं च देवानां सम्यगीश्वरी ।
प्रत्यगास्ते वदन्ती या सा मां पातु सरस्वती ॥

जो मेरे, देवताओं के , देवों की अधिपति उनके अन्दर-बाहर बसने वाली – वो सरस्वती मेरी रक्षा करें ॥

🍁ब्लूं चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । यज्ञं दधे सरस्वती ॥ ४ ॥

ब्लूं सत्य के प्रेणना स्वरूप, उत्तम बुद्धि को जगाने वाली, सरस्वती यज्ञ स्वीकार करें ॥

महो अर्ण इति मन्त्रस्य ।मधुच्छन्द ऋषिः । गायत्री छन्दः । सरस्वती देवता ।
सौरिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ।

महो अर्ण मन्त्र । मधुच्छन्द ऋषि । गायत्री छन्द । सरस्वती देवता । सौर बीजशक्ति कीलक । मन्त्र के द्वारा अभिषेक ।।

अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति ।
रुद्रादित्यादिरूपस्था यस्यामावेश्यतां पुनः । ध्यायन्ति सर्वरूपैका सा मां पातु सरस्वती ।

वो जो आंतरिक नियंत्रक की तरह तीनों विश्वों पर राज्य करती हैं । जो रुद्र, सूर्य तथा अन्य का रूप धरती हैं – वो सरस्वती मेरी रक्षा करें ॥

🍁सौः महो अर्णः सरस्वती प्रचेतयति केतुना ।
धियो विश्वा विराजति ॥ ५ ॥

सौ, सरस्वती भव्य रूप से प्रकाशित हैं - विशाल जल परत की तरह - जो ज्ञान दायक तथा विचारों की शक्ती हैं ।

चत्वारि वागिति मन्त्रस्य उचथ्यपुत्रो दीर्घतमा ऋषिः । त्रिष्टुप् छन्दः । सरस्वती देवता ।
ऐमिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ।

चत्वारि वाग मन्त्र । उचथ्यपुत्र ऋषि । त्रिष्टुप छन्द । सरस्वती देवता । ऐम बीजशक्ति कीलक । मन्त्र के द्वारा अभिषेक ।।

या प्रत्यग्दृष्टिभिर्जीवैर्व्यज्यमानानुभूयते ।
व्यापिनि ज्ञप्तिरूपैका सा मां पातु सरस्वती ॥

जो प्रकट हो चुकी हैं, जो अन्तर्मुखी ज्ञानियों को दिखती हैं; जो एक ही व्यापक रूप से ज्ञान हैं – वो सरस्वती मेरी रक्षा करें ॥

🍁ऐं चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः ।
गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ ६ ॥

ऐं, वाक शक्ति चार समूह तक सीमित है । ये बुद्धिमान ब्राह्मण जानते हैं । गुफाओं में स्थित तीन नहीं हिलते - चौथे के वारे में मनुष्य बताता है ।

यद्राग्वदन्तीति मन्त्रस्य भार्गव ऋषिः । त्रिष्टुप् छन्दः । सरस्वती देवता ।
क्लीमिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ।

यद्राग्वदन्त मन्त्र । भार्गव ऋषि । त्रिष्टुप छन्द । सरस्वती देवता । क्लीम बीजशक्ति कीलक । मन्त्र के द्वारा अभिषेक ।।

नामजात्यादिमिर्भेदैरष्टधा या विकल्पिता ।
निर्विकल्पात्मना व्यक्ता सा मां पातु सरस्वती ॥

जिसकी आठ नाम रूप में कल्पना हुई है, सामान्य व तुल्य रूप में । वो समस्त रूप में प्रकट – वो सरस्वती मेरी रक्षा करें ॥

🍁क्लीं यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा ।
चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगाम ॥ ७ ॥

क्लीं, जो जड़ वस्तुओं की भाषा हैं; देवों की अधिपति; शांति से विचरने वाली । दूध को शक्ति की धारा देने वाली; कौन है जो उनकी सर्वोच्च रूप से वच सका है ?

देवीं वाचमिति मन्त्रस्य भार्गव ऋषिः । त्रिष्टुप् छन्दः । सरस्वती देवता ।
सौरिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ।

देवीं वाचम मन्त्र । भार्गव ऋषि । त्रिष्टुप छन्द । सरस्वती देवता । सौरत बीजशक्ति कीलक । मन्त्र के द्वारा अभिषेक ।।

व्यक्ताव्यक्तगिरः सर्वे वेदाद्या व्याहरन्ति याम् ।
सर्वकामदुघा धेनुः सा मां पातु सरस्वती ॥

जिसके बारे में वेद तथा सभी अन्य पृथक व अपृथक वर्णन चर्चा करते हैं । - वह गाय जो सभी मनोकामनाओं को पूर्ण करती है , वो सरस्वती मेरी रक्षा करें ॥

🍁सौः देवीं वाचमजनयन्त देवास्ता विश्वरूपाः पशवो वदन्ति ।
सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु ॥८ ॥

सौ देवी, ब्रह्म वाणी स्वरूपा! वे सभी प्राणियों की भाषा; सभी शक्तियों तथा स्वादिष्ट पेय पदार्थ को देने वाली वह गाय - हमें स्तुति करने की शक्ति प्रदान करें ॥

उत त्व इति मन्त्रस्य बृहस्पतिरृशिः । त्रिष्टुप्छन्दः । सरस्वती देवता ।
समिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ।

उत त्व मन्त्र । बृहस्पति ऋषि । त्रिष्टुप छन्द । सरस्वती देवता । सम बीजशक्ति कीलक । मन्त्र के द्वारा अभिषेक ।।

यां विदित्वाखिलं बन्धं निर्मथ्याखिलवर्त्मना ।
योगी याति परं स्थानं सा मां पातु सरस्वती ॥

जिसको जानने से सभी बन्धन से मुक्ति मिल जाती है,जिसको जानने बाला,उस परम आवास (मोक्ष)के सभी पथों से परिचित हो जाता है । - वो सरस्वती मेरी रक्षा करें ॥

🍁सं उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम् ।
उतो त्वस्मै तन्वं १ विसस्रे जायेव पत्य उशती सुवासाः ॥ ९ ॥

स, यद्यपि देखने से, वाणी देखी नहीं जाती, जो सुन के भी सुनी नहीं जाती; केवल जिसके सामने वे स्वयं को प्रकट करती हैं, जैसे अच्छे से वस्त्रों से ढकी पत्नी अपने पुरुष के सामने ॥

अम्बितम इति मन्त्रस्य गृत्समद ऋषिः । अनुष्टुप् छन्दः । सरस्वती देवता ।
ऐमिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ।

अम्बितम मन्त्र । गृत्समद ऋषि । अनुष्टुप छन्द । सरस्वती देवता । ऐम बीजशक्ति कीलक । मन्त्र के द्वारा अभिषेक ।।

नामरूपात्मकं सर्वं यस्यामावेश्य तं पुनः ।
ध्यायन्ति ब्रह्मरूपैका सा मां पातु सरस्वती ॥

जो उनके नाम तथा रूपों की स्तुति करते हैं, जिनका ध्यान करते हैं । जिसका ब्राह्मण स्वरूप है - वो सरस्वती मेरी रक्षा करें ॥

🍁ऐंं अम्बितमे नदीतमे देवितमे सरस्वती ।
अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस्कृधि ॥ १० ॥

ऐंं सबसे प्रिय माता! सर्वश्रेष्ठ नदी! महानतम देवी ! सरस्वती! हमारे पास आपकी प्रशंसा करने की शक्ति नहीं है - माता! हमको शक्ति दो ॥

🍁चतुर्मुखमुखाम्भोजवनहंसवधूर्मम ।
मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ॥ १ ॥

हंस के ऊपर विराजित चार मुखों बाली देवी । वो सरस्वती मेरे मन में नित्य वास करें ।

🍁नमस्ते शारदे देवि काश्मीरपुरवासिनी ।
त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे ॥ २ ॥

शारदा देवि को नमस्कार, जो कश्मीर की रहने वाली हैं । उनकी मैं हमेशा प्राथना करता हूं - मुझको योग्य ज्ञान अर्पण करें ।

🍁अक्षसूत्राङ्कुशधरा पाशपुस्तकधारिणी ।
मुक्ताहारसमायुक्ता वाचि तिष्ठतु मे सदा ॥ ३ ॥

जिनके हाथ में माला, अंकुश, फंदा तथा पुस्तक हैं । जिन्होने मोती की माला पहनी है, मेरी वाणी में सदा वास करें ।।

🍁कम्बुकण्ठी सुताम्रोष्ठी सर्वाभरणभूषिता ।
महासरस्वती देवी जिह्वाग्रे संनिविश्यताम् ॥ ४ ॥

शंख के समान गरदन वाली; गहरे लाल अधरों वाली; सभी प्रकार के आभरणों वाली; महासरस्वती देवी! मेरी जीह्वा पर वास करें ।

🍁या श्रद्धा धारणा मेधा वाग्देवी विधिवल्लभा ।
भक्तजिह्वाग्रसद्ना शमादिगुणदायिनी ॥ ५ ॥

श्रद्धा, धारणा, ज्ञान आप हैं, वाणी की देवी, ब्रह्मा की पत्नी; भक्तों की जीह्वा पर वास करने वाली, सभी गुणों जैसे बुद्धि का संयम, को देने वाली।

🍁नमामि यामिनीनाथलेखालङ्कृतकुन्तलाम् ।
भवानीं भवसन्तापनिर्वापणसुधानदीम् ॥ ६ ॥

भवानी, हम आपको नमन करते हैं! जिसकी लेटें नवचन्द्र को अंलकृत करती हैं । आप अमृत की वो धारा है जो संसार की ह्र तपन का नाश करती है ।।

🍁यः कवित्वं निरातङ्कं भक्तिमुक्ती च वाञ्छति ।
सोऽभ्यैर्च्यैनां दशश्लोक्या नित्यं स्तौति सरस्वतीम् ॥ ७ ॥

जो दोषरहित कवित्व का उपहार पाना चाहते हैं, जो भक्ति तथा मुक्ति की अभिलाषी हैं। इन द्स श्लोकों से नित्य सरस्वती की स्तुति करें ।

🍁तस्यैवं स्तुवतो नित्यं समभ्यर्च्य सरस्वतीम् ।
भक्तिश्रद्धाभियुक्तस्य षण्मासात्प्रत्ययो भवेत् ॥ ८ ॥

जो इस प्रकार हमेशा सरस्वती की स्तुति करता है । एवं जिसमें समर्पण व विश्वास है, छः महीनों में सिद्धि प्राप्त कर लेता है ।

🍁ततः प्रवर्तते वाणी स्वेच्छया ललिताक्षरा ।
गद्यपद्यात्मकैः शब्दैरप्रमेयैर्विवक्षितैः ॥ ९ ॥

वो स्वाभाविक रूप से विद्वान होता है ।तथा सत्य रूप में गद्य व पद्य को उत्प्न्न करता है।

🍁अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः ।
इत्येवं निश्चयं विप्राः सा होवाच सरस्वती ॥ १० ॥

सारस्वत कवि द्वारा यह अनसुना व्याख्यान । सत्व सरस्वती की व्याख्या करता है।

🍁आत्मविद्या मया लब्धा ब्रह्मणैव सनातनी ।
ब्रह्मत्वं मे सदा नित्यं सच्चिदानन्दरूपतः ॥ ११ ॥
[इस श्लोक के बाद का हिन्दी अनुवाद झुमरीतिलैया विवेकानन्द युवा महामण्डल के सौजन्य से हुआ है।]

माता सरस्वती इस प्रकार बोली : ' ब्रह्मा को भी मेरे ही द्वारा शाश्वत आत्मज्ञान की प्राप्ति हुई थी; बिना किसी रुकावट या बाधा के प्राप्त होने वाला अनन्त सत्य-ज्ञान-आनन्द का चिरस्थायी ब्रह्मत्व मेरी महिमा है।'

🍁प्रकृतित्वं ततः सृष्टं सत्त्वादिगुणसाम्यतः ।
सत्यमाभाति चिच्छाया दर्पणे प्रतिबिम्बवत् ॥ १२ ॥

इधर सत-रज-तम तीनों गुणों में पूर्ण-साम्यावस्था बनाये रखने वाली प्रकृति भी मैं ही हूँ, जिस प्रकार दर्पण में प्रतिबिम्ब झलक उठता है, उसी प्रकार मेरे ही भीतर चित् आकार ले लेता है ।

🍁तेन चित्प्रतिबिम्बेन त्रिविधा भाति सा पुनः ।
प्रकृत्यवच्छिन्नतया पुरुषत्वं पुनश्च ते ॥ १३ ॥

उस चित् दर्पण में प्रतिबिंबित होकर एक बार पुनः मैं त्रिगुणात्मिका प्रकृति बन जाती हूँ;और प्रकृति कह कर पहचानी जाने वाली मैं ही वास्तव में पुरुष हूँ !! - (या वह 'तदेकं ब्रह्म' हूँ जो बिना वायु के भी साँस लेने में समर्थ है !)

🍁शुद्धसत्त्वप्रधानायां मायायां बिम्बितो ह्यजः ।
सत्त्वप्रधाना प्रकृतिर्मायेति प्रतिपाद्यते ॥ १४ ॥

तब वह ईश्वरीय शक्ति माया जो गर्भस्थ रहती है, जिसमें 'सत्त्व' शासन करता है, परिलक्षित होने लगती है; माया या प्रकृति वह है, जिसमें सत्त्व प्रधान रहता है।

🍁 सा माया स्ववशोपाधिः सर्वज्ञस्येश्वरस्य हि ।
वश्यमायत्वमेकत्वं सर्वज्ञत्वं च तस्य तु ॥ १५ ॥

यह माया एक गुणवाचक शब्द है- जो सर्वज्ञ, सर्वशक्तिमान परमेश्वर के पूर्ण अधीनस्थ रहती है; क्योंकि माया के ऊपर उनका प्रभुत्व एवं अन्तर्यामित्व एकमात्र ब्रह्म एवं शक्ति की अभेदता में सत्य है।

🍁सात्त्विकत्वात्समष्टित्वात्साक्षित्वाज्जगतामपि ।
जगत्कर्तुमकर्तुं वा चान्यथा कर्तुमीशते ॥ १६ ॥

सत्व से गठित समस्त जीव सामूहिक रूप से वस्तुतः इस जगत-प्रपंच का एक तमाशबीन या दर्शक मात्र है; ब्रह्म (श्रीरामकृष्ण देव ) ही ईश्वर हैं, जो इस विश्व-ब्रह्माण्ड के 'कर्तुम-अकर्तुम या अन्यथा कर्तुम' की शक्ति रखते हैं, 'सर्वज्ञता ' या सब कुछ जान लेने वाला 'अन्तर्यामित्व' उनका स्वभाव है।

🍁यः स ईश्वर इत्युक्तः सर्वज्ञत्वादिभिर्गुणैः ।
शक्तिद्वयं हि मायया विक्षेपावृत्तिरूपकम् ॥ १७ ॥

माया में दो प्रकार की शक्तियाँ हैं, विक्षेप शक्ति और आवरण शक्ति; पहले वाली शक्ति के कारण ही समस्त सूक्ष्म एवं स्थूल जगत व्यक्त होता है !

🍁विक्षेपशक्तिर्लिङ्गादिब्रह्माण्डान्तं जगत्सृजेत् ।
अन्तर्दृग्दृश्ययोर्भेदं बहिश्च ब्रह्मसर्गयोः ॥ १८ ॥

माया की दूसरी शक्ति (आवरण शक्ति) द्रष्टा और दृश्य के बीच आवरण डाल कर भीतर में (अन्तः प्रकृति में) बहुत बड़ा अंतर (gulf) उत्पन्न कर देती है; और बाहर (बाह्य प्रकृति) में सृष्टि (मनुष्य) और स्रष्टा (ब्रह्म) (या कारण और कार्य) बीच बहुत गहरी खाई को उत्पन्न करती है। यह माया ही अंतहीन ब्रह्माण्डीय प्रवाह का कारण बनती है।

🍁आवृणोत्यपरा शक्तिः सा संसारस्य कारणम् ।
साक्षिणः पुरतो भातं लिङ्गदेहेन संयुतम् ॥ १९ ॥

अविद्या माया सूक्ष्म शरीर को आत्मा के साथ संयुक्त करने के लिए, साक्षी के प्रकाश में प्रकट हो जाती है; और वहाँ आत्मा और मन सहवर्ती होकर अद्भुत जीव रूप में प्रतीयमान होने लगते हैं।

🍁चितिच्छाया समावेशाज्जीवः स्याद्व्यावहारिकः ।
अस्य जीवत्वमारोपात्साक्षिण्यप्यवभासते ॥ २० ॥
जो शक्ति आवरण डाल देती है, उसी के साथ साक्षी के प्रकाश को अपने ऊपर आरोपित करने से जीव का जीवपना (Jivahood) प्रकाशित होने लगता है; फिर पार्थक्य (द्रष्टा-दृश्य विवेक) के प्रकाशित होते ही वह जीवपना भी मिट जाता है।

🍁आवृतौ तु विनष्टायां भेदे भातेऽपयाति तत् ।
तथा सर्गब्रह्मणोश्च भेदमावृत्य तिष्ठति ॥ २१ ॥

ठीक उसी प्रकार, जब ब्रह्म उस शक्ति के साथ, जो ब्रह्माण्ड से इसकी भिन्नता के ऊपर परदा डाल देती है, से तादात्म्य कर लेता है तो वही ब्रह्म नाना रूपों (mutations) में तब्दील होकर भासित होने लगता है।

🍁या शक्तिस्त्वद्वशाद्ब्रह्म विकृतत्वेन भासते ।
अत्राप्यावृतिनाशेन विभाति ब्रह्मसर्गयोः ॥ २२ ॥
यहाँ भी, जब माया की वह सत्ता जो परदा डालने वाली है एक बार गिर जाती है, तो वह भिन्नता जो ब्रह्म और ब्रह्माण्ड के बीच अंतर को धारण करती है, वह विभेद भी दिखाई नहीं देता। भिन्नता सृष्ट जगत में होती है, ब्रह्म में विभेद कभी नहीं होता।

🍁भेदस्तयोर्विकारः स्यात्सर्गे न ब्रह्मणि क्वचित् ।
अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् ॥ २३ ॥

क्योंकि सृष्ट जगत में असमानता या भिन्नता तो रहेगा ही, पर ब्रह्म में बिल्कुल विभेद नहीं है। परम सत्ता या ब्रह्म के अस्ति = सत् (being), भाति = चित् (Shining), प्रिय = आनन्द (loving), नाम (name) और रूप ( form) ये पाँच अंश हैं। इनमें से प्रथम तीन अंश ब्रह्म का रूप है, शेष दो जगत् का रूप है।

(संसार की हर वस्तु के पाँच अंश होते है- अस्तित्व, चेतना, प्रियता, रूप और नाम. इन में से पहले तीन परमात्मा की ओर संकेत करते है, और आख़री दो जगत् की ओर. अस्तित्व, चेतना, प्रियता (जिन्हें सत्, चित्, आनंद भी कहा जाता है)

🍁आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ।
अपेक्ष्य नामरूपे द्वे सच्चिदानन्दतत्परः ॥ २४ ॥

दृष्टि गोचर जगत में जिस किसी वस्तु या व्यक्ति को देखो उसमें से ब्रह्म (श्रीरामकृष्ण) के अंतिम दो पहलु (नाम और रूप) को द्रष्टा-दृश्य विवेक प्रयोग के द्वारा अलग कर लो, और उनके पहले वाले तीन पहलु ' अस्ति = सत् (being)', 'भाति = चित् (Shining)', 'प्रिय = आनन्द (loving)' को अपने ह्रदय में अथवा बाहर देखने के लिये, निरंतर तत्पर होकर एकाग्रता (concentration) का अभ्यास करो!

🍁समाधिं सर्वदा कुर्याधृदये वाथ वा बहिः ।
सविकल्पो निर्विकल्पः समाधिर्द्विविधो हृदि ॥ २५ ॥

अपने ह्रदय में ब्रह्म (श्रीरामकृष्ण) के नाम-रूप वाले आकृति (Aspects) के साथ (सविकल्प) अथवा उसे अलग हटाकर (निर्विकल्प) जिस एकाग्रता का अभ्यास किया जाता है, वह दो प्रकार का होता है -

🍁दृश्यशब्दानुभेदेन स विकल्पः पुनर्द्विधा ।
कामाद्याश्चित्तगा दृश्यास्तत्साक्षित्वेन चेतनम् ॥ २६ ॥

वेदान्त इस जगत् को नाम रूपात्मक मानता है। 'वस्तु' (दृश्य या रूप) के अनुरूप 'शब्द' (नाम) ; यह जगत् शब्द और अर्थ रूप है। शब्द और अर्थ को नाम और रूप भी कहा गया है। इच्छा और उसकी धारा या सिलसिला मन के कार्य हैं; इसलिये द्रष्टा मन जब चाहे अपने दृस्य मन को किसी अवतार के नाम-रूप पर एकाग्र रखने का या ध्यान का अभ्यास कर सकता है।

🍁ध्यायेद्दृश्यानुविद्धोऽयं समाधिः सविकल्पकः ।
असङ्गः सच्चिदानन्दः स्वप्रभो द्वैतवर्जितः ॥ २७ ॥

इस एकाग्रता (प्रत्याहार-धारणा) का अभ्यास करते करते जब ध्यान गहरा होने पर समाधी होती है, उस अवस्था में चेतना (Consciousness) उस नमरूपात्मक ब्रह्म वस्तु के साथ एकात्मता बोध का अनुभव करने के बाद यह स्वीकार कर लेती है कि " मैं निर्विकार, निष्कलंक हूँ, मैं स्वयं-प्रकाश, उस शब्द (इष्ट के नाम) के अनुरूप द्वैत से रहित सच्चिदानन्द स्वरुप हूँ !"

🍁अस्मीतिशब्दविद्धोऽयं समाधिः सविकल्पकः ।
स्वानुभूतिरसावेशाद्दृश्यशब्दाद्यपेक्षितुः ॥ २८ ॥

इस प्रकार सविकल्प एकाग्रता जन्य समाधि में ' मैं वह हूँ ' के अनुभव के बाद जब कोई साधक, उससे भी गहरी आत्मानुभूति, वायु रहित स्थान में प्रज्ज्वलित निष्कम्प ज्योत के आनन्द को पाने के लिये ब्रह्म के नाम रूप का परित्याग कर देता है।

🍁निर्विकल्पः समाधिः स्यान्निवातस्थितदीपवत् ।
हृदीव बाह्यदेशेऽपि यस्मिन्कस्मिंश्च वस्तुनि ॥ २९ ॥

एकाग्रता चाहे ह्रदय में हो या बाहर हो, शुद्ध ब्रह्म और उसके नाम-रूप में विवेक जाग्रत होते ही वह निर्वात दीप-शिखा की भाँति निर्विकल्प समाधि को प्राप्त हो जाता है।

🍁समाधिराद्यसन्मात्रान्नामरूपपृथक्कृतिः ।
स्तब्धीभावो रसास्वादात्तृतीयः पूर्ववन्मतः ॥ ३० ॥

जब परमानन्द का स्वाद मूक-आस्वादन की तरह अनुभूत होने लगता है, तब समय को बिना विराम लिये अच्छी तरह से इन छह प्रकार की एकाग्रता में व्यतीत किया जा सकता है।

🍁एतैः समाधिभिः षड्भिर्नयेत्कालं निरन्तरम् ।
देहाभिमाने गलिते विज्ञाते परमात्मनि ।
यत्र यत्र मनो याति तत्र तत्र परामृतम् ॥ ३१ ॥

जब शरीर के प्रति अहंभाव (conceit या मिथ्याभिमान) पूरी तरह से समाप्त हो जाता है, और परमात्मा की अनुभूति हो जाती है, तब मन जहाँ जहाँ भी भ्रमण करता है, उसे वहीं वहीं पर अमरत्व की अनुभूति होती है। हृदय की वक्रता सीधी हो जाती है

🍁भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ३२ ॥
जब आत्मा (अहं नहीं) को उस परमात्मा का दर्शन प्राप्त हो जाता है, तब सभी संशयों नाश हो जाता है, और सभी प्रक़र के कर्मों का क्षय हो जाता है।

🍁मयि जीवत्वमीशत्वं कल्पितं वस्तुतो नहि ।
इति यस्तु विजानाति स मुक्तो नात्र संशयः ॥ ३३ ॥

' जीव स्वरुपतः शिव है ' मनुष्य अपने यथार्थ स्वरुप में ईश्वर ही है, उसके उपर जो ससीम जीवभाव, नश्वर, पापी आदि भाव तो अध्यारोपित हैं- वे वास्तविक नहीं हैं; जो व्यक्ति इसे सचमुच (अपने अनुभूति से जान लेता है) वह व्यक्ति मुक्त हो जाता है; इसमें थोड़ा भी संशय नहीं है। यही ज्ञान का रहस्य है।

🍁ॐ वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् ।
आविरावीर्म एधि । वेदस्य म आणीस्थः । शृतं मे मा प्रहासीः ।
अनेनाधीतेनाहोरात्रान्सन्दधामि । ऋतं वदिष्यामि ।
सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु ।
अवतु मामवतु वक्तारमवतु वक्तारम् ॥
ॐ शान्तिः ! शान्तिः !! शान्तिः !!!
॥ इति सरस्वतीरहस्योपनिषत्समाप्ता ॥

[ ॐ = हे सच्चिदानन्दस्वरूप परमात्मन् ! मेरी वाणी मनमें स्थित हो जाये; अर्थात मेरे मन-मुख दोनों जायें । ऐसा न हो कि मैं वाणी से एक बात बोलूँ, और मन दूसरा ही चिंतन करता रहे, या मन में कोई दूसरा ही भाव रहे, और वाणी द्वारा दूसरा प्रकट करूँ। मेरे संकल्प और वचन दोनों विशुद्ध होकर एक हो जायें। हे ज्योति-स्वरूप परमेश्वर ! आप मेरे लिये प्रकट हो जाइये। -अपनी दैवीमाया का पर्दा मेरे सामने से हटा लीजिये। इस प्रकार परमात्मा से प्रार्थना करने के बाद उपासक अपने मन और वाणी को आदेश देता है-
' हे मन और वाणी ! तुम दोनों मेरे लिये वेदविषयक ज्ञान की प्राप्ति कराने वाले बन जाओ-ताकि तुम्हारी सहायता से मैं वेदविषयक ज्ञान प्राप्त कर सकूँ। मेरा गुरुमुख से सुना हुआ और अनुभव में आया हुआ ज्ञान मेरा त्याग न करे अर्थात वह मुझे सर्वदा स्मरण रहे, मैं उसे कभी न भूलूँ। मेरी इच्छा है कि अध्यन द्वारा मैं दिन और रात एक के दूँ। अर्थात रात-दिन निरन्तर ब्रह्मविद्या का पठन और चिन्तन ही करता रहूँ। मेरी शेष बची आयु का एक क्षण भी व्यर्थ में व्यतीत न होने पाये। मैं अपनी वाणी से सदा ऐसे ही शब्दों का उच्चारण करूँगा; जो सर्वथा उत्तम हो, जिनमें किसी प्रकार का दोष न हो; तथा जो कुछ बोलूँगा, सर्वथा सत्य बोलूँगा --जैसा देखा, सुना और समझा हुआ भाव है, वही भाव वाणीद्वारा प्रकट करूँगा। उसमें किसी प्रकार का छल नहीं करूँगा।'
अब पुनः परमात्मा से प्रार्थना करना है -' वे परब्रह्म परमात्मा हम दोनों की रक्षा करें, अर्थात वे मेरी रक्षा करें और मुझे ब्रह्मविद्या सिखाने वाले आचार्य की भी रक्षा करें। जिससे मेरे अध्यन में किसी प्रकार का विघ्न उपस्थित न हो । आधिभौतिक, आधिदैविक और आध्यात्मिक -तीनों प्रकार के विघ्नों की सर्वथा निवृत्ति के लिये तीन बार 'शान्तिः' पद का उच्चारण किया गया है। भगवान शान्तिस्वरूप हैं, इसलिये उनके स्मरण से शान्ति निश्चित है ।

 (गीता प्रेस में प्रकाशित अनुवाद सहित)

नवदुर्गोपनिषत् उक्तं चाथर्वणरहस्ये ।

  नवदुर्गोपनिषत् उक्तं चाथर्वणरहस्ये । विनियोगः- ॐ अस्य श्रीनवदुर्गामहामन्त्रस्य किरातरुपधर ईश्वर ऋषिः, अनुष्टुप् छन्दः, अन्तर्यामी नारायणः ...